________________
४०
काव्यानुशासनम् [अ. १. सू. १ अत्र न रावण इत्यस्मादेव त्यागो युक्तः । तथाहि-रावण इत्येतजगदाक्रन्दकारित्वाद्यर्थान्तरं प्रतिपादयजनकस्य धर्मवीरं प्रत्यनुभावतां प्रतिपद्यते । ऐश्वर्थ पाण्डित्यं परमेशभक्तिर्देशविशेषोऽभिजन इत्येतत्सर्वं लोकमपबाधमानस्याधर्मपरस्य नार्थक्रियाकारकमिति तावतोऽर्थस्य तिरस्कारकत्वेनैवें रावणचेष्टितं निर्वाहणीयं । यत्त्वन्यदुपात्तं ' क नु पुनर् ' इति, तद्यदि ससंदेहत्वेन योज्यते अथाक्षेपत्वेनाथापि नेदृग्वरो लभ्यत इत्यत्रार्थान्तरन्यासत्वेन तथापि प्रकृतस्य धर्मवीरस्य न कथंचिनिर्वाहः ।
नात्यन्तं निर्वाहो यथा कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढम्
नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः । भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं । धन्यो हन्यत एवं निद्भुतिपरः प्रेयान् रुदत्या हसन् ॥९॥
अ. श. ९. ] 'अत्र रूपकमारब्धमनिटं च रसोपकाराय । नत्वेवं यथा
सखीनां पुर इति । भवत्योऽनवरतं ब्रुवते नायमेवं करोति तत्पश्यन्त्विदानीमिति भावः । स्खलन्ती कोपावेशेन कला च मधुरा गीर्यस्याः । कासौ गीरित्याह-भूयो नैवमिति-एवंरूपा । एवमिति यदुक्तं तत्किमित्याहदुश्चेष्टित नखपदादि । संसूच्य अङ्गल्या निर्देशन । हन्यत एवेति । न तु सख्यादिकृतोऽनुनयोऽनुरुध्यते । यतोऽसौ हसन निमित्तीकृत्य नितिपरः प्रियतमश्च तदीयं व्यलीकं का सोढुं समर्थेति ।
अनिय॒दं चेति । बाहुलतिकायाः पाशत्वेन यदि रूपण निर्वाहयेद् दयिता व्याधवधूर्वासगृहं कारागारपञ्जरादीति तदा रसभङ्गः स्यादिति ॥
1. I. ० रन्यायेन
1 C. After faraga the scribe has repeated a previous Passage from °मयि निःसहाः etc to कार्याणि नायतदृशोवस and then struck out the lines. The last three lines of 8a and the whole of 8b are thus taken up by this repetition. .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org