________________
३९
५
अ. १. सू. १४ ] काव्यानुशासनम् वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं
ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रतेर्बर्हिभिः ।। तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैः दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥६॥
[भ. श. ८७] अत्र वाताहारत्वं पश्चाद्वाच्यमप्यादावुक्तम्-इत्यतिशयोक्तिरनवसरे गृहीता । तथाहि-प्रथमत एव प्रथमपादे हेतू प्रेक्षया यदतिशयोक्तेरुपादानं न तत्प्रकृतस्य दम्भप्रकर्षप्रभावतिरस्कृतगुणगणानुशोचनमयस्य निर्वेदस्याङ्गतामेति । न हि वाताहरत्वादधिको दम्भस्तोयकणवतं नापि ततोऽधिकं दम्भत्वं मृगाजिनवसनमिति ।
गृहीतस्याप्यवसरे त्यागो यथारक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणैः
त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः __ सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥७॥
२०
अत्र प्रबन्धप्रवृत्तोऽपि श्लेषो व्यतिरेकविवक्षया त्यज्यमानो विप्रलम्भोपकारी।
नत्वेवं यथा-- आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं
भक्तिभूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ! उत्पत्तिर्दृहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याचेदेष न रावणः क नु पुनः सर्वत्र सर्वे गुणाः ॥८॥
[बा. रा. अ. १. श्लो. ३६] . रक्तस्त्वमिति । सीतावियोगोपनतविसंस्थूलावस्थस्य दाशरथेरियमुक्तिः । रको लोहितः, अहमपि रक्तः प्रबुद्धानुरागः । तत्र च प्रबोधको विभावः पलवराग इति मन्तव्यम् । एवं प्रतिपादमाद्योऽर्थो विभावत्वेन व्याख्येयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org