SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [अ. १. सु. १४ ताटस्थ्येन यथा--- लीलावधूतपद्मा कथयन्ती पक्षपातमधिकं नः । मानसमुपैति केयं चित्रगता राजहंसीव ॥ ४ ॥ [र. अं. २. श्लो, ८] फलहकलिखितसागरिकाप्रतिबिम्बदर्शनाभिजाताभिलाषस्य वत्सराजस्येयमुक्तिस्तटस्थस्येव कविनोपरचितेति श्लेषानुगृहीतोपमालङ्कारप्राधान्येन प्रस्तुतो रसो गुणीकृतोऽपरिजिघटिषया । अङ्गत्वेऽपि कालेऽवसरे ग्रहणं यथा उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणात् आयासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्य-कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥५॥ [र. अं. २. श्लो. ४] अत्रोपमा तदनुग्राहकश्च श्लेष ईर्ष्याविप्रलम्भस्य भाविनश्चर्वणाभिमुख्यं कुर्वन्नवसरे रसस्य प्रमुखोभावदशायामुपनिबद्ध उपकारी । न त्वेवं यथा-- __ उद्दामोत्कलिकामिति । वासवदत्तापरिगृहीता नवमालिकालता संप्रति न प्रफुल्ला, माधवी लता तु मत्परिगृहीता प्रफुल्लेति तदर्शनादीर्ध्यावशेन विपाटलद्युति मुखमहं देव्याः करिष्यामीति वत्सराजोक्तिरियम् । उद्दामा बह्वय उद्गताः कलिका यस्याः । उत्कलिकाश्च रुहरुहिका । क्षणात्तस्मिन्नेवावसरे प्रारब्धा जृम्भा विकासो यया, जम्भा च मन्मथकृतोऽङ्गमर्दः । श्वसनोद्गमैर्वसन्तमारुतो. लासैरात्मनो लतालक्षणस्यायासमायासनमान्दोलनायत्तमातन्वतीं, निःश्वासपरम्पराभिश्चात्मन आयासं हृदयस्थित संतापमातन्वतीं प्रकटीकुर्वाणाम् । सह मदना__ ख्येन वृक्षविशेषेण, मदनेन कामेन च । ध्रुवशब्दश्च भावीविकाशदानजीवितभिति। 1. N. दद्वेष. 2. A. B. C. रुहुरुहिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy