SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अ. १. स. १४ ] काव्यानुशासनम् अत्र भ्रमरस्वभावोक्तिरलङ्कारो रसपरत्वेनोपनिबद्धो रसोपकारी । बाधकत्वेन यथा स्रस्तः स्रग्दामशोभां त्यजति विरचितामाकुलः केशपाशः क्षीबाया नूपुरौ च द्विगुणतरमिमौ क्रन्दतः पादलग्नौ । व्यस्तः कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः क्रीडन्त्याः पीडयेव स्तनभर विनमन्मध्यभङ्गानपेक्षम् ॥३॥ [र. अं. १. श्लो. १६] अत्र पीडयेवेत्युत्प्रेक्षालङ्कारोऽङ्गी संस्तदनुग्राहकश्चार्थश्लेषः करुणोचितान् विभावानुभावान्संपादयन् बाधकत्वेन भातीति न प्रकृतरसीपकारी । 3 मनवरतं कम्पवती तया मुग्धतया शोभातिशयशालिनीं प्रवातप्रकम्पितनीलोत्पलधिया स्पृशसीत्यस्माकमभिलाषतः परिचुम्बनप्रवृत्तानां तरलनयनप्रान्तपरिचुम्बनसमयनयनस्पर्शविधानमुचितमत्रभवतानुष्टितमिति कथमिव न सुकृती भवान् । तथा लोचनकुवलयस्पर्शपराङ्कुखः स्वजातिसमुचितकमलको शनिलयनाभ्यासवशकर्ण कुहरानुप्रवेशाभिलाषेण तनिकटवर्ती मृदुप्रियकारि मधुरं स्वनसि शिञ्जितमातनोषि तत्किलास्माकं नयनप्रान्तचुम्वनाभिमुखीकृतकान्ता कर्णोपान्तनि वेशिताननानां तदवसरोचिताभिमताभिप्रायनिवेदनपरतया रहो वृत्तान्ताख्यानमुचितमनुष्ठितं भवतेति भवानेव सुकृती । तथा नयनस्पर्शकर्णोपान्तस्वननव्यापृतोऽ शङ्कितोपलब्धसुगन्धिमुखनिःश्वासामोदाकृष्टस्तदधरपल्वनिवेशासक्त मतिर्दशनभयाद्विधूनितपाणिपल्लवायास्तद्वञ्चनापूर्वकमधरोपविष्टो रतिविषये सुरतोपभोगस्याधररसास्वादसारतया सर्वस्वमधररसपानमनुभव सीत्यस्मत्कृत्य संपादनात्त्वमेव सुकृप्ती । किल रहो वृत्तान्ताख्यानेनाङ्गीका रितसुरतरसायाः प्रथममधररसामृतपानमस्माभिर्विधेयमिति । 3 1 1. C. तरनयन० 2. A. ससषनस्पयशेन B. ससषनस्पर्शयन C. समय न स्पर्श ० 3. A. B. मतिदशम० C. मतिदर्शन where the rcfa is misplaced. Jain Education International For Private & Personal Use Only ३७ १० १५ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy