________________
१४
काव्यानुशासनम् [अ. १. सू. १२-१३ शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैनिद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ १ ॥
[अ. श. ८२] गुणदोषयोः सामान्यलक्षणमाह
रसस्योत्कर्षापकर्षहेतू गुणदोषौ, भक्त्या शब्दार्थयोः॥१२॥
रसो वक्ष्यमाणस्वरूपः, तस्योत्कर्षहेतवो गुणाः, अपकर्षहेतवस्तु दोषाः । ते च रसस्यैव धर्माः, उपचारेण तु तदुपकारिणोः शब्दार्थयोरुच्यन्ते । रसाश्रयत्वं च गुणदोषयोरन्वयव्यतिरेकानुविधानात् । तथाहि-यत्रैव दोषास्तत्रैव गुणाः, रसविशेषे च दोषा न तु शब्दार्थयोः। यदि हि तयोः स्युस्तद्वीभत्सादौ कष्टत्वादयो गुणा न भवेयुः, हास्यादौ चाश्लीलत्वादयः । अनित्याश्चैते दोषा । यतो यस्याङ्गिनस्ते दोषास्तदभावे न दोषास्तद्भावे तु दोषा इत्यन्वयव्यतिरेकाभ्यां गुणदोषयो रस एवाश्रयः ॥ अलङ्काराणां सामान्यलक्षणमाह
अङ्गाश्रिता अलङ्काराः ॥ १३॥
उपचारेणेति । यथा ' आकार एवास्य शूरः' इति शौर्यमुपचारात्तदभिव्यजके शरीरे व्यवह्रियते । तथा शब्दार्थयोर्माधुर्यादय इत्यर्थः ।
अङ्गाश्रिता इति । ये त्वशिनि रसे भवन्ति ते गुणाः। एष एव गुणालङ्कारविवेकः । एतावता शौर्यादिसदृशा गुणाः केयूरादितुल्या अलङ्कारा इति विवेकमुक्त्वा संयोगसमवायाभ्यां शौर्यादीनामस्ति भेदः। इह तूभयेषां समवायेन स्थितिरित्यभिधाय तस्माद्गडरिकाप्रवाहेण गुणालङ्कारभेद इति भामहविवरणे
1. I. सामान्येन ल. 2. I drops from इत्यन्वय° to Oश्रयः ३. A. C. गडरिका०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org