________________
३३
अ. १. सू. ११ ] काव्यानुशासनम् बालत्वं, कामस्य मूर्त्तत्वममूर्त्तवं चेत्यादि ॥ काव्यस्य हेतुमुक्त्वा स्वरूपमाह
अदोषौ सगुणौ सालङ्कारौ च शद्वार्थों काव्यम् ॥ ११॥
चकारो निरलङ्कारयोरपि शब्दार्थयोः क्वचित्काव्यत्वख्यापनार्थः । यथाशिवचन्द्रमसो बालत्वं यथा
मालायमानामरसिन्धुहंसः कोटीरवल्लीकुसुम भवस्य ।
दाक्षायणीविभ्रमदर्पणश्रि बालेन्दुखण्डं भवतः पुनातु ॥१२३॥ कामस्य मर्तत्वं यथा
अयं स भुवनत्रयप्रथितसंयमः शङ्करो बिभर्ति वपुषाधुना विरहकातरः कामिनीम् अनेन किल निर्जिता वयमिति प्रियायाः कर
करेण परिताडयञ्जयति जातहासः स्मरः ॥ १२४ ॥ अमृतत्वं यथा
धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला मनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः । इयाजेतुं यस्य त्रिभुवनमनङ्गस्य विभवः स वः कामः कामान्दिशतु दयितापाङ्गवसतिः ॥१२५॥
[सुभाषितावली. घण्टकस्य ] निरलङ्कारयोरपीति । अनेन काव्ये गुणानामवश्यंभावमाह । तथा हि- २० अनलकृतमपि गुणवद्वचः स्वदते। यथोदाहरिष्यमाणं--'शून्यं वासगृहम्' इत्यादि । अलङ्कतमपि निर्गुणं न स्वदते । यथा
स्तनकर्परपृष्ठस्था वार्जिनीछदमण्डकाः । वियोगारन्यूष्मणा पक्काः कन्दुकिन्येव ते स्त्रिया ॥ १२६ ॥
.
]
इति ।
२५
1. N. °दर्पणविभ्रमश्रि 2. A. B. काये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org