SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [अ. १. सू. १० तथा चक्षुरादेरनेकवर्णोपवर्णनम् , बहुकालजन्मनोऽपि शिवचन्द्रमसो यथा च-- महासुरसमाजेऽस्मिन्न चैकोऽप्यस्ति सोऽसुरः । यस्य नाशनिनिष्पेषनीराजितमुरःस्थलम् ॥ ११८ ॥ एषमन्येऽपि भेदा अभ्यूह्याः । चक्षुरादेरनेकवर्णोपवर्णनमिति । चक्षुषः यथा तिष्ठन्त्या जनसंकुलेऽपि सुदृशा सायं गृहप्राङ्गणे तद्वारं मयि निःसहालसतनौ वीजामृदु प्रेक्षति । हीनम्राननयैव लोलसरलं निःश्वस्य तत्रान्तरे प्रेमााः शशिखण्डपाण्डिममुषो मुक्ताः कटाक्षच्छटाः ॥११९॥ श्यामता यथा अथ पथि गमयित्वा रम्यक्लप्तोपकार्य कतिचिदवनिपालः शर्वरीः शर्वकल्पः । पुरमविशदयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥ १२० ॥ [ र. वं. स. ११. श्लो ९३ ] कृष्णता यथा पादन्यासक्वणितरशनास्तत्र लीलावधूतैरत्नच्छायाखचितवलिमिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दूनामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥ १२१ ॥ [ मे. दू. पू. मे. श्लो. ३५ ] मिश्रवर्णता यथा तामुत्तीर्य व्रज परिचितभूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णसारप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्ब पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ १२२ ॥ [ मे. दू. पू. मे. श्लो. १७ ] 1. B. drops. यथा तामुत्तीर्य, - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy