SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४६४ .. काव्यानुशासनम् [२०३) अ. ८ स. ८ - प्रधानमधिकृत्य यत्र द्वयोर्विवादः सार्धप्राकृतरचिता चेटकादिवत् प्रवाहका। प्रेतमहाराष्ट्रभाषया क्षुद्रकथा गोरोचना-अनङ्गवत्यादिवन्मन्थल्लिका । यस्यां पुरोहितामात्यतापसादीनां प्रारब्धानिर्वाहे उपहासः ५ सापि मन्थल्लिका । यस्यां पूर्व वस्तु न लक्ष्यते पश्चात्तु प्रकाश्यते सा मत्स्यहसितादिवन्मणिकुलया। एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणानन्तवृत्तान्तवर्णनप्रधाना शूद्रकादिवत् परिकथा । १० (193) धूर्तविटकुट्टनीमतमयूरमार्जारिकादि यल्लोके । कार्याकार्यनिरूपणरूपमिह निदर्शनं तदपि ॥ प्रवाहिकेति । तथा च--- (194) यत्र द्वयोविवादः प्रधानमधिकृत्य जायते सदसि । सार्धप्राकृतरचिता प्रवलिका चेटकप्रमृतिः ॥ मन्थल्लिकेति । तथा च(195) क्षुद्रकथा मन्थल्ली प्रेतमहाराष्ट्रभाषया भवति । गोरोचनेव कार्या सानङ्गवतीव वा कविभिः ॥ सापीति । तथा च(196) यस्यामुपहासः स्यात्पुरोहितामात्यतापसादीनाम् । प्रारब्धानिर्वाहे सापि हि मन्थल्लिका भवति ॥ मणिकुल्येति । तथा च(197) मणिकुल्यायां जलमिव न लक्ष्यते यत्र पूर्वतो वस्तु । - पश्चात्प्रकाशते सा मणिकुल्या मत्स्यहसितादिः ॥ परिकथेति । तथा च(198) पर्यायेण बहूनां यत्र प्रतियोगिनां कथाः कुशलैः । श्रयन्ते शूद्रकवजिगीषुभिः परिकथा सा तु॥ 1. L. प्रवहलिका 2. L. मल्लिका ३. L. मानुकुल्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy