SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ २०३) अ. ८ सू. ८ ] काव्यानुशासनम् समाप्ता वुच्छवासा बध्यन्ते सा संस्कृतभाषानिबद्धा, अपादः पदसंतानो गद्यं तेन युक्ता । युक्तग्रहणादन्तरान्तरा प्रविरलपद्यनिबन्धेऽप्यदुष्टा आख्यायिका । यथा हर्षचरितादिः । २०३) धीरशान्तनायका गधेन पद्येन वा सर्वभाषा कथा ||८|| T आख्यायिकावन्न स्वचरितव्यावर्णकोऽपि तु धीरशान्तो नायकः, 2 तस्य तु वृत्तमन्येन कविना वा यत्र वार्यते, या च काचिद् गद्यमयी यथा कादम्बरी, काचित्पद्यमयी यथा लीलावती, या च सर्वभाषा काचित् संस्कृतेन काचित् प्राकृतेन काचिन्मागध्या काचिच्छूरसेन्या काचित् पिशाच्या काचिदपभ्रंशेन बध्यते सा कथा | प्रबन्धमध्ये परबोधनार्थ नलाद्युपाख्यानमिवोपाख्यानमभिनयन् 3 पटन् गायन् यदेको ग्रन्थिकः कथयति तगोविन्दवदाख्यानम् । तिरश्चामतिरश्चां वा चेष्टाभिर्यत्र कार्यमकार्यं वा निश्चीयते तत्पञ्चतन्त्रादिवत्, धूर्तविटकुट्टनीमतमयूर मार्जारिकादिवच्च निदर्शनम् । उपाख्यानमिति । यदाह (190) नलसावित्रीषोडशराजोपख्यानवत्प्रबन्धान्तः । अन्यप्रबोधनार्थ यदुपाख्यातं ह्युपाख्यानम् ॥ आख्यानमिति । तथा चाह (191) आख्यानकसंज्ञां तल्लभते यद्यभिनयन् पठन् गायन् । प्रन्थिक एकः कथयति गोविन्दवदवहिते सदसि ॥ निदर्शनमिति । तथा च(192) नियते तिरश्वामतिरश्चां वापि यत्र चेष्टाभिः । कार्यमकार्य वा तन्निदर्शनं पञ्चतन्त्रादिः ॥ 2. I. सा 1. P. नायकस्य and drops तस्य 3. N . यदैको ४६१ Jain Education International For Private & Personal Use Only १० १५ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy