________________
काव्यानुशासनम् [२०२) अ. ८ स.७ पर्यन्तमेकमेव छन्दो भवतीति । गलितकानि तु तत्र कैरपि विदग्धमानिभिः क्षिप्तानीति तद्विदो भाषन्ते ।
२०२) नायकाख्यातस्ववृत्ता भाव्यर्थशंसिवक्रादिः सोच्छवासा संस्कृता गद्ययुक्ताख्यायिका ॥७॥
धीरप्रशान्तस्य गाम्भीर्यगुणोत्कर्षात्स्वयं स्वगुणोपत्रर्णनं न संभवतीत्यर्थाद्यस्यां धीरोद्धतादिना नायकेन स्वकीयं वृत्तं सदाचाररूपं चेष्टितं कन्यापहारसंग्रामसमागमाभ्युदयभूषितं मित्रादिष्वाख्यायते, अनागतार्थशंसीनि च वक्त्रापरवक्त्रार्यादीनि यत्र बध्यन्ते, यत्र चावान्तरप्रकरण
वृत्तमिति । वृत्तशब्दः सदाचार एव वर्तते। अत एव मनुराह(186) न विद्यया केवलया तपसा वापि पात्रता । यस्य वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥
[ या. स्मृ. अ. १. श्लो. २०० ] इति तदाह सदाचाररूपमिति। वक्त्रेति । वक्त्रशब्देन वक्रप्रकरणं लक्ष्यते । तद्यथा-(187) 'अनुष्टुभि नाद्यात्स्नौ तुर्याद्यो वक्त्रम् ' [छ. शा. अ. ३. सू. ३३ ] इत्यादि । (188) नारल्गा नजज्रा अपरवक्रम्' [ छ, शा. अ. ३. सू. १५ ] (189) गो षष्ठो जो ग्लौ वा पूर्वेऽर्धे परे षष्ठो लआर्या गाथा' [ छ. शा. अ. ४. सू. १] इत्येव छन्दोनुशासने लक्षितानि । वक्त्रं यथा हर्षचरिते___ निजवर्षहितस्नेहा बहुभक्तजनान्विताः ।। सुकाला इव जायन्ते प्रजाः पुण्येन भूभृतः ॥६२२।।
[ ह. च. उ. ३. पृ. ८३ ] अपरवक्त्रं यथातरलयसि दृशं किमुत्सुकामकलुषमानसवासलालिते । अवतर कलहंसि वापिकां पुनरपि यास्यसि पङ्कजालयम् ॥६२३॥
[ ह. च. उ. १. पृ. १८ ] आर्या यथा-- सकलमहीभृत्कम्पकृदुत्पद्यत एक एव नपवंशे । विपुलेऽपि पृथुप्रतिमो दन्त इव गणाधिपस्य मुखे ॥६२४॥
[ ह. च. उ. ४ पृ. ११९ ] 1. I. स्वकीयवृत्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org