________________
४६०
काव्यानुशासनम् [२०१) अ. ८ सू. ६ स्तलोकरञ्जकत्वं, सदलङ्कारवाक्यत्वं, देशकालपात्रचेष्टाकथान्तरानुषञ्जनं, मार्गद्वयानुवर्तनं चेति ।
(183) नैकमोजः प्रसादो वा रसभावविदः कवेः [ ] इति ख्यापयति ।
अर्थानुरूपच्छन्दस्त्वमिति । अनेन शृङ्गारे द्रुतविलम्बितादयः, वीरे वसन्ततिलकादयः, करुणे वैतालीयादयः, रौद्रे स्रग्धरादयः, सर्वत्र शार्दलविक्रीडितादयो निबन्धनीया इत्युपदिशति । - समस्तलोकरञ्जकत्वमिति । अनेनालौकिकतां परिहरन् प्रीतिनिबन्धनस्य प्रबन्धस्य लोके प्रतिष्ठया प्रयासवैयर्थ्यमपाकरोति ।,
सदलङ्कारवाक्यत्वमिति । अनेन यद्यप्युपात्तलक्षणानां गुणानामलङ्काराणां च स्वरूपसांकर्येणैव काव्यशोभाकरत्वं तथाप्यलङ्कारववैन भारं भूयसा उद्वोढुमलमित्येतदुपर्युपदेशेनोपपादयति ।
देशेत्यादिना परिपूर्णाङ्गेऽपि संविधानके देशकालायविरोधेन तद्वर्णना. दिकं निर्दिशति । तत्र देशान्तरानुषजनं यथा--
मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्खः । भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥६१७॥
[शि. व. स. ४. श्लो. ३०.] कालान्तरानुषजनं यथासपदि हरिसखैर्वधुनिदेशाद्धनितमनोरमवल्लकीमृदङ्गैः । युगपदनुगुणस्य संनिधानं वियति वने च यथायथं वितेने ॥६१८॥
[कि. अ. स. १०. श्लो. १८ ] पात्रान्तरानुषजनं यथाकरिष्यसे यत्र सुदुष्कराणि प्रसत्तये गोत्रभिदस्तपांसि । शिलोच्चयं चारुशिलोच्चयं तमेष क्षणान्नेष्यति गुख्यकस्त्वाम् ॥६१९॥
[कि. अ. स. ३. श्लो. २९ ] चेष्टान्तरानुषञ्जनं यथा-- मदस्रुतिश्यामितगण्डलेखाः कामन्ति विक्रान्तनराधिरूढाः । सहिष्णवो नेह युधामभिज्ञा नागा नगोच्छ्रायमिवाक्षिपन्तः ॥६२०॥
[कि. अ. स. १६. लो. २ ] 1. निबन्धस्य 2. A. B. drop प्रबन्धस्य 3. C. drops चारुशिलोचयं 4. C. तामवक्षणाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org