________________
२०१) अ. ८. स. ६] काव्यानुशासनम् . ४५९ भ्युदयादिवर्णनं, वनविहारजलक्रीडामधुपानमानापगमरतोत्स्वादिवर्णनमिति ।
___ उभयवैचित्र्यं यथा-रसानुरूपसंदर्भत्वं, अर्थानुरूपछन्दस्त्वं, समयुद्धं यथा-रामरावणयोः । चतुरङ्गयुद्धं यथा कुरुपाण्डवानाम् । विषमो यथारामस्य खरदूषणत्रिशिरोभिः सह।।
चतुर्दशसहस्राणि चतुर्दश च राक्षसाः । हतान्येकेन रामेण मानुषेण पदातिना ॥६१६॥ इति । [ ] समविषमो यथा-महेश्वरार्जुनयोः किरातार्जुनीये, रघुमघोनोर्वा रघुवंश इति । अभ्युदयस्त्रिधा-अरिविजयः, स्त्रीलाभः, पुत्रोत्पत्तिः । तत्रारिविजयो द्विधा-शत्रूच्छेदेन, तदुपनत्या च । स पूर्वो रावणवधादौ १० द्वितीयो हरिविजयादौ । स्त्रीलाभो यथा-इन्दुमतीस्वयंवरे पुत्रलाभो दिलीपस्य रघुवंश इति ।
बनविहारेत्यादिना सोद्दीपनविभावस्य संभोगशृङ्गारस्योपदेशात् । मन्त्रदूतप्रयाणसंग्रामाभ्युदयादिभिस्तानर्थानधिगम्य तैस्तैर्विलासविशेषैः कामसेवया तदु. पयोग: कर्तव्य इति शिक्षयति । तत्र वनविहारो द्विधा - मृगयादिः, पुष्पावचा. १५ यादिश्च । तत्राद्यो यथा-दशरथस्य रघुवंशे। द्वितीयो यथा-यदूनां शिशुपालवधे, अप्सरसां वा किरातार्जुनीय इति । जलक्रीडा द्विधा-एकस्य वा बह्वीमिः स्वयोषाभिर्बहूनां वा बह्वोभियथास्वमङ्गनाभिः । तत्राद्या यथाकार्तवीर्यस्य नर्मदायाम्, कुशस्य वा सरय्वाम् । द्वितीया यथा-अप्सरसां सिद्धसिन्धौ, यदूनां वा रैवतकहद इति । मधुपानं द्विधा-गोष्ठीगृहे, वासभवने २० च । तत्राद्यं हरिविजये शिशुपालवधे च । द्वितीयं किरातार्जुनीये कुमारसंभवे च । मानापगमो द्विधा-प्रायनिकः, नैमित्तिकश्च । प्रायलिको हरिविजये सत्यभामायाः । नैमित्तिको रामाल्लङ्कानिशाचरीणां सेतुबन्धे । रतोत्सवोऽपि । द्विधा-सामान्यत: विशेषतश्च । सामान्यतः किरातार्जुनीये शिशुपालवधे च। विशेषतः कुमारसंभवे जानकी. हरणे च ।
रसानुरूपसन्दर्भवमिति । अनेन रतिप्रकर्षे कोमलः, उत्साहप्रकर्षे प्रौढः, क्रोधप्रकर्षे कठोरः, शोकप्रकर्षे मृदुः, विस्मयप्रकर्षे तु स्फुटः शब्दसन्दर्भो विरचनीय इत्युपदिशन्___1. A. drops शिशुपालवधे च । विशेषतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org