________________
४५८
काव्यानुशासनम् [२०१) अ. ८ सू ६ नगराश्रमशैलसैन्यावासार्णवादिवर्णनं, ऋतुरात्रिंदिवास्तिमयचन्द्रोदयादिवर्णनं, नायकनायिकाकुमारवाहनादिवर्णनं, मन्त्रदूतप्रयाणसंग्रामा___ नगराश्रमेत्यादिना देशप्रशंसामुपदिशति । नगरवर्णनं यथा हरिविजयरावणविजय-शिशुपालवध-कुमारसंभवादौ । आश्रमवर्णनं यथा रघुवंश-कीरातार्जुनीयादौ । शैलवर्णन किरातार्जुनीयादौ । सैन्यावासवर्णनं माघे । अर्णववर्णनं सेतुबन्धादौ ।
ऋत्वित्यादिना कालावस्थोपवर्णनं लक्षयति । तत्र ऋतुवर्णने शरद्वसन्तग्रीष्मवर्षादिवर्णनानि सेतुबन्ध-हरिविजय-रघुवंश-हरिवंशादौ । रात्रिवर्णनं किरातार्जुनीय-कुमारसंभव-शिशुपालवध-हयग्रीववधादौ । दिवसवर्णनं प्रभातपूर्वाह्नमध्याहापराह्नवर्णनानि शिशुपालवधकिरातार्जुनीयादौ । अर्कास्तसमयवर्णन कुमारसंभव-हरिविजयरावणविजय-सेतुबन्धादौ चन्द्रोदयवर्णनं कुमारसंभव-किरातार्जुनीय-शिशुपालवध-सेतुबन्धादाविति ।
नायकेत्यादिना पात्रविशेषाभिनन्दनं सूचयति । तत्र नायकवर्णनं १५ हरिविजय-रावणविजय-जानकीहरण-रघुवंशादौ। नायिकावर्णनं
कुवलयाश्वचरित-कुमारसंभव-जानकीहरण-सुभद्राहरणादौ । कुमारवर्णनं रघुवंशादौ । वाहनवर्णनेत्यादिना हस्त्यश्वगरुत्मत्पुष्पकादिवर्णनानि हरिविजय-रावणविजयादौ ।
___मन्त्रेत्यादिना अर्थप्रधानचेष्टानामुपदेशाच्चतुर्वर्गफलत्वेऽपि भूयसाथोंप. २० देशकृन्महाकाव्यं भवतीत्यभिधत्ते । तत्र मन्त्रः पञ्चाङ्गः प्रतिपादितः । स यथा
किरातार्जुनीय-शिशुपालवध-भट्टिकाव्य-हयग्रीषवधादौ । दूतनिधा-निसृष्टार्थः, परिमितार्थः, शासनहरश्च । निसृष्टार्थों यथा-उद्योगपर्वणि वासुदेवः, हरिविजये वा सात्यकिः । परिमिताओं यथा-रामायणेऽङ्गदः ।
शासनहरो यथा-कादम्बा केयूरक इति । प्रयाणं त्रिधा-स्वशक्युपचये २५ परव्यसने, अभिमतार्थसिद्धये च। तत्र स्वशक्त्युपचये यथा--रघो रघुवंशे।
परव्यसने यथा-जरासन्धव्यसनिनः शिशुपालस्योच्छेदाय वासुदेवस्य शिशुपालवधे । अभिमतार्थस्वसिद्धये यथा-विष्णोः पारिजातहरणाय हरिविजये, यथा वा-दिव्यास्त्रलाभायार्जुनस्य किरातार्जुनीये इति । संग्रामस्त्रिधासमः, विषमः, समविषम इति । तत्र समः-द्वन्द्वयुद्धे चतुरङ्गयुद्धे च । द्वन्द्व____ 1. A. B. C. सत्यकिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org