________________
२०१) अ. ८ सू. ६] काव्यानुशासनम् क्यत्वं, दुष्करचित्रादिसर्गत्वं, स्वाभिप्रायस्वनामेष्टनाममङ्गलाङ्कितसमाप्तित्वमिति ।
अर्थवैचित्र्यं यथा-चतुर्वगफलोपायत्वं, चतुरोदात्तनायकत्वं, रसभावनिरन्तरत्वं, विधिनिषेधव्युत्पादकत्वं, सुसूत्रसंविधानकत्वं,
इतस्ततो भषन्भूरि न पतेत् पिशुनः शुनः । अवदाततया किं च न भेदो हंसतः सतः ॥६५॥ [ ह. वि. ]
दुष्करचित्रादिसर्गत्वमिति । आदिग्रहणेन यमक लेषादयो गृह्यन्ते । ते च किरातार्जुनीयादो दृश्यन्त एव ।
स्वाभिप्रायेत्यादि । तेष्वभिप्रायाङ्कता यथा-धैर्य मायुराजस्य, उत्साहः सर्वसेनस्य, अनुरागः प्रधरसेनस्येति । स्वनामाङ्कता यथाराजशेखरस्य हरविलासे । इष्टनामाङ्कता यथा-लक्ष्म्यङ्कता किराते भारवेः, ध्यकता शिशुपालवधे माघस्य । मङ्गलाङ्कता यथा-अभ्युदयः कृष्णचरिते, जय उषाहरणे, आनन्दः पञ्चशिखशूद्रकथायाम् इति ।
चतुवर्गफलोपायत्वमिति । अनेन चत्वारो वर्गा धर्मार्थकाममोक्षाः त एव व्यस्ताः समस्ता वा फलं तस्योपायतया महाकाव्य ज्ञापयन् मुक्त- १५ कादिभ्यो भेदमाचष्टे ।
चनुरोदात्तनायकत्वमिति । अनेन कथाशरीरव्यापिनो नायकस्य धर्मार्थकाममोक्षेषु वैचक्षण्यमभिदधान आश्रयविभूत्योरप्युत्कर्षममिदधाति । ___ रसभावनिरन्तरत्वमिति । अनेन रसग्रहणेनापि तत्कारणभूतानां भावानां परिग्रहे पृथग्भावग्रहणेन रसभावानां परस्परं कार्यकारणभावमभिदधद्र- २० सेभ्यो भावा भावेभ्यो रसा रसेभ्यश्च रसा इति नैरन्तर्यस्य रसभावसाध्यत्वेन भोजनस्येवैकरसस्य प्रबन्धस्यापि वैरस्यमपाकरोति ।
विधिनिषेधव्युत्पादकत्वमिति। अनेन गुणवतो नायकस्योत्कर्षप्रकाशनेन दोषवतश्चोच्छेदप्रदर्शनेन जिगीषुणा गुणवतैव भाव्यं न दोषवतेति व्युत्पादयति ।
सुसूत्रसंविधानकत्वमिति । अनेन प्रोक्तलक्षणाः पदार्थास्तथा निबन्धनीया यथा प्रबन्धस्य शोभायै भवन्तीति कवीन् शिक्षयति ।
1. A. B. सपन् । 2. C. °चरितेन 3. C. उदाहरेण 4. N. शूद्रककथायां 5. C. आशय
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org