________________
२०१) अ. ८ सू. ६ ] काव्यानुशासनम्
समानयनमर्थानां मुखाद्यानां सबीजिनाम् ।
2
नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् ॥ इति ॥ ४१ ॥
[ना. शा. अ. १९. ( N. S.), अ. २१, श्लो. ३९-४३ (C. S. S. ) ] शब्दवैचित्र्यं यथा - असंक्षिप्तग्रन्थत्वं अविषमबन्धत्वं अनति
इति राज्ञः सागरिकाप्राप्तिर्ने राश्यरूपैव ।
3
'भो, मा अण्णहा संभावेहि । सा खु देवीए उज्जेणि पेसिदा । अदो मए अप्पिअं ति भणिदम्' ||६०७॥ इति विदूषकोक्त्या सन्देहमानीता । तथा हि तद्विसृष्टां रत्नमालां हृदये विन्यस्य पुनराह -
अहह !
कण्ठाश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया ।
तुल्यावस्था सखी चेयं तनुराश्वास्यते मम ॥ ६०८॥ [र. अं. ४ श्रो. ४] इतीन्द्रजाल प्रयोग यावद्विघ्ने वासवदत्ताक्रोधो निमितम् । एवं लोभादाहार्यम् ।
समानयनमर्थानामिति । मुखाद्यानां चतुणी सन्धीनां येऽर्थाः प्रारम्भयत्नप्रत्याशा [?] प्राप्याशा ] नियताप्तिलक्षणास्तेषां सह बीजिभिर्बीजविकारः क्रमेणावस्थाचतुष्टये भवद्भिरुत्पत्त्युद्घाटनोद्भेदगर्भनिर्भेदलक्षणैर्वर्तमानानां नानाविधैः सुखदुःखामकै रतिहासशोकक्रोधादिभिर्भावैरुत्तराणां चमत्कारास्पदत्वेन जातोत्कर्षाणां यत्समानयनं यस्मिन्नर्थराशौ समानीयन्ते फलनिष्पत्तौ योज्यन्ते तन्निर्वहण फलयोगावस्थया व्याप्तम् । तत्र यदा सुखप्राप्तेः फलत्वं तदा रतिहासोत्साहविस्मयस्थायिबाहुल्यै धृतिहृर्षगर्वोत्सुक्यमदादिव्यभिचारिभावबाहुल्यं च प्रारम्भादीनाम् । दुःखहानेस्तु फलत्वे क्रोधशोकभयजुगुप्सास्थायिभाव बाहुल्यम्, आलस्योन्यव्यभि चारिभावबाहुल्यं च दृष्टव्यम् । उदाहरणम् - रत्नावल्या मैन्द्रजालिकप्रवेशाप्रभृत्यासमाप्तेरेषामवस्था सन्ध्यादीनां नायकप्रतिनायकतदमात्यतत्परिवारनायिकादिमुखेनापि नियोजनम् । न त्वेकमुखेनैवेति ।
5
6
असंक्षिप्तग्रन्थत्वमिति । अनेन ग्रन्थगौरवमाचक्षाणः कथारसविच्छेदशङ्किनां मनस्यावर्जयति ।
1. I. सजीवना 3. A. B. drop इति
5. C. drops from हाने
Jain Education International
2. P. निबर्हणं L निर्वहण
4. C. drops व to एषा
४.५५
6. A. drops भाव
For Private & Personal Use Only
१०
१५
२०
२५
www.jainelibrary.org