________________
. काव्यानुशासनम् । २०१) अ. ८ सू. ६ गर्भनिर्मिनबीजार्थों विलोभनकृतोऽपि वा
क्रोधव्यसनजो वाऽपि स विमर्शः प्रकीर्तितः ॥४०॥ ईदिसं अवसरं पावेदि । (पुनः कण्ठे पाशं दातुमिच्छति । ) राजा-(निर्वर्ण्य सहर्षम् ।) कथं प्रिया में सागरिका ।
अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि विमुश्च त्वं लतापाशमेनं । . चलितमपि निरोद्धं जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि ।६०३।
[र. अ. ३. श्लो. ९७] इत्यादिना स्फुटमेव प्राप्तिरित्येवं गर्भः । अप्राप्त्यशश्चात्रावश्यंभावी ।
अन्यथा हि संभावनात्मा प्राप्तिसंभवः कथं निश्चय एव हि स्यात् । विमर्श १० त्वप्राप्तेरेव प्रधानता, प्राप्त्यंशस्य च न्यूनतेति विशेषः ।
गर्भनिभिन्नेति । बीजशब्देन बीजफलम् । अर्थशब्देन निवृत्तिरुच्यते । तेन गर्भानिर्भिनं प्रदर्शितमुखं बहिनिःसरणोन्मुखं यद्वीजफलं तस्य योऽथों निवृत्तिः पुनस्तत्रैव च प्रवेश इव यत्र स विमर्शसन्धिः ।
स इति । तच्छब्देन यत्रेत्याक्षिप्तम् । सा च निवृत्तिः क्रोधेन वा . १५ निमित्तेन लोभेन वा व्यसनेन वा शापादिना वा। अपिशब्दाद्विन्ननिमित्तान्तराणां
प्रतिपदमशक्यनिर्देशानां संग्रहः । तत्र क्रोधाद्यथा रत्नावल्यां तृतीयेऽहे क्रोधावेशेन वासवदत्तया कारानिक्षिप्तायां सागरिकायाम् । तथा हि तत्र चतुर्थेऽ प्रवेशकः सागरिकाप्राप्तिसन्देहेन करुणरसात्मकः । अत्रैव सागरिकाप्राप्तिसन्देहं मन्यमान आह राजा___ अम्भोजगर्भसुकुमारतनुस्तदासौ कण्ठग्रहे प्रथमरागघने विलीय । सद्यः पतन्मदनमार्गणरन्ध्रमागैर्मन्ये मम प्रियतमा हृदयं प्रविष्टा ॥६०४॥
[र. अं. ४. श्लो. २] योऽपि मे विश्वासस्थानं वसन्तकः सोऽपि देव्या संयतः । तत्कस्याप्रतो बाष्पमोक्षं करिष्ये' ॥६०५॥ पुनरत्रैव'अप्पिों तेण पारेमि आचक्खुिदुम्' इति विदूषकोक्ते 'राजा-(समाश्वस्य) प्राणाः परित्यजत मा ननु सत्पथोऽयं हे दक्षिणा भवत मद्ववचनं कुरुध्वम् । शीघ्रं न यात यदि तन्मुषिताः स्थ मूढा याता सुदूरमधुना गजगामिनी सा ॥६६॥ [र. अं. ४. श्लो. ३] 1. A. शेषः
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org