SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [अ. १. सू. १० . दित्यानां, नारायणमाधवविष्णुदामोदरकूर्मादेः। कमलासंपदोः,नागसर्पयोः, अयं कः संबन्धो यदनुहरते तस्य कुमुद विशुद्धाः शुद्धानां ध्रुवमनमिसंधिप्रणयिनः ।। १०७ ।। बादशानामप्यादित्यानामैक्यं यथा यस्याऽधोऽधस्तथोपर्युपरि निरवधि भ्राम्यतो विश्वमश्वरावृत्तालातलीला रचयति रयतो मण्डलं चण्डधाम्नः । सोऽव्यादुत्तप्तकार्तस्वरसरलशरस्पर्धिमिर्धामदण्डै रुद्दण्डैः प्रापयन्वः प्रचुरतमतमः स्तोममस्तं समस्तम् ॥१०॥ नारायणादेरैक्यं कमलासंपदोश्च यथा-- येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः सोऽव्यादष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥ १०९ ॥ 3 यथा च दोर्मन्दीरितमन्दरेण जलधेरुत्थापिता या स्वयं । यां भूत्वा कमठः पुराणककुदन्यस्तामुदस्तभ्भयन् । तां लक्ष्मी पुरुषोत्तमः पुनरसौ लीलाञ्चितभ्रलतानिर्देशैः समवीविशत्प्रणयिनां गेहेषु दोष्णि क्षितिम् ॥११०।। नागसर्पयोरैक्यं यथा हे नागराज बहुमस्य नितम्बभागं भोगेन गाढमभिवेष्टय मन्दराद्रेः 1. I. °दामोदरविष्णुमाधवकूर्मादेः 2. A. लातला 3. N. प्रचुरतर° Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy