________________
४५०
१०
१५
२०
२५
३०
काव्यानुशासनम् [ २०१) अ. ८. सू. ६
( 67 ) यत्र बीजसमुत्पत्तिर्नानार्थरस संभवा । काव्ये शरीरानुगता तन्मुखं परिचक्षते ||३७||
अथ स ललितयोषिदुलताचारुशृतं रतिवलयपदाङ्के चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥५८६ ॥ कु सं. स. ३. श्लो. ६४ ] यथा वा हरिप्रबोधे भार्यागीतिच्छन्दोबद्धाश्वासकान्ते पुष्पितात्रा - भगवति शयिते विभावरीणां द्युतिमपहृत्य यशोविभावरीणाम् । गतमशशितया विभावरीणां सघनमहः समतां विभावरीणाम् ||५८७।। [ ]
सन्धिबन्धेषु च नाराचतोटकादीनि विचित्राणि छन्दांसि दृश्यन्ते । यत्र बोजेति । बीजस्य यत्र समुत्पत्तिः कविप्रयत्नतो निबन्धः । नानारूपोऽर्थः प्रयोजनं येषां ते नानार्थाः संभवन्तीति संभवः । नानार्थ रसाः संभवो यस्याः सा तथा । काव्ये नाटकादौ । तत्रैव सन्धीनां व्यक्ततयावभासात् ।
अत एव तत्रैवोदाहरिष्यते - शरीरानुगता इति । वृत्तानुगता - इति वृत्तव्यापिनी । तन्मुखम् । यथा वेणीसंहारे कुरुपाण्डवानामुभयेषां क्षेमप्रतिपादकं स्थापकस्य वचनं सहदेवः क्रुद्धस्य भीमसेनस्यानुकूल्येन शमनाय कुरुनिधनपरं व्याचचक्षे
निर्वाणवैरदहनाः प्रशमादरीणाम् ॥ ५८८ || [ वे सं. प्रस्तावना श्लो. ७] इति । अत्र प्रशमोऽवसानमुदयनिरोधात् । यथा शान्तो वायुः शान्तोSरिवसित इत्यर्थः । तदेवमरीणामवसानेन दाह्याभावान्निर्वाणवरामयः पाण्डुतनया नन्दन्तु सह माधवेन । कुरुराजसुतास्तु सभृत्या रुधिरप्रसाधितभुवः क्षतशरीराः स्वर्गस्था भवन्त्विति शत्रुक्षयपूर्वकस्य पाण्डवानां समृद्धिरूपस्य फलस्य बीजं कविप्रयत्नादुत्पन्नम् । नानार्थरससंभवा चास्योत्पत्तिः । नाटकानेकत्वेन पात्रानेकत्वविवक्षया वा नानार्थता रसानाम् । तथा हि-अत्र कुरुसन्धानममृष्यमाणः पृथुललाटतटघटितभीषणभ्रुकुटिरा पिवन्निव नः सर्वान् दृष्टिपातेन सहदेवानुयातः क्रुद्धो भीम इत एवाभिवर्तते ॥५८९॥ [ वे. सं. प्र. ]
1
एष
इति पारिपार्श्वकवचनात् सूचितक्रोधस्थायिभावानुभावो लाक्षागृहानलविषान्नसभाप्रवेशेरित्यादिस्ववचनप्रकाशितस्वविभावो भीमसेनस्य रौद्रो रसः कुरुक्षयप्रयो. जनो बीजेन प्रकाशितत्वाद्वीजोत्पत्तेरेव संभवनिबद्धः । कुरूणां च कुलक्षय
1. A. B. कत्वेन पात्रानेकत्वविवक्षाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org