________________
३०१) अं. ८ सू. ६ ]. काव्यानुशासनम्
बीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित् ।
मुखन्यस्तस्य सर्वत्र तद्धि प्रतिमुखं स्मृतम् ॥३८॥ निमित्तकः करुणः पाण्डवसिद्धिप्रयोजनो बीजोत्पत्तेरेव संभवग्निबद्भः । यथा दुर्योधनः शोचनाह
अद्यैवावां रणमुपगतौ तातमम्बां च दृष्ट्या घातस्ताभ्यां शिरसि विनतो हन्त दुःशासनश्च । तस्मिन् बाले प्रसभमरिणा प्रापिते तामवस्था पार्श्व पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा ॥५९०॥
वे. सं अं. ४. श्लो. १५ ] तदेवं भीमसेनस्येव क्रोधात्मकं चेष्टितं शत्रुक्षयफलमित्युपादेयम् । दुर्यो- १० धनस्येव च दौरात्म्यभूयिष्ठं चेष्टितं शोकफलत्वात्त्याज्यमिति विधिनिषेधविषयव्युत्पत्ते नार्थता पात्रानेकत्वाश्रया रसानाम् ।। __ नाटकानेकत्वाद्यथा-सागरिकाप्राप्त्यर्थों वत्सराजस्य शृङ्गारः बीजसमुत्पत्ति. रिति । बीजं समुत्पन्नमुक्तविशेषणविशिष्टमिष्यते । तथा हि बीजमेव काव्यशरीरव्यापि यतो मुखसन्धौ तस्योत्पत्तिः । प्रतिमुखे दृष्टनष्टमिव तस्योद्वाहनं १५ गर्ने चोद्भदस्तस्य अवमर्श च गर्भनिर्भेदः । निर्वहणे व समानयनमिति काव्यशरीरव्यापिता ।
बीजस्योडाटनमिति । अयमर्थः-दृष्टनष्टमिव कृत्वा तावन्मुखे 'द्वीपादन्यस्मात्-' इत्यादिना न्यस्तं भूमाविव बीजम्, अमात्येन सागरिकाचेष्टित घसन्तोत्सवकामदेवपूजादिना तिरोहितत्वान्नष्टमिव, न हि तन्नष्टमेव । सागरिकाचेष्टितस्य हिं बीजस्येव तदाच्छादकमप्युत्सवादिरूपं भूमिवत्प्रत्युत कार्यजननशक्त्युद्बोधकम् , तस्य दृष्टनष्टतुल्यं कृत्वा न्यस्तस्यात एव कुङ्कमबीजस्य यदुद्घाटनं तत्कल्प यत्रोद्घाटनं सर्वत्रव कथाभागसमूहे स प्रतिमुखम् । प्रतिराभिमुख्ये । मुखस्याभिमुख्येन यतोऽत्र वृत्तिः । पराङ्मुखता हि दृष्टनष्टकल्पता। तथा हि रत्नावल्याम्परपेसणसिदं पि सरीरमेदस्स दसणेण अज्ज मे बहुमदं संपण्णम्' ॥५९१॥
. [र. अ. १. पृ. ४७ (N. S.) 1. I. °स्योत्पाटन 2. A. drops स्याभिमुख्येन 3. N. करिसिद 4. A. B. बहुमुद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org