________________
४४८
काव्यानुशासनम् [१९९) अ. ८ स. ४. डोम्बिकाप्रभृतेर्नर्तक्यास्तदा सैवेदानीमेवंभूतं वस्तुरूपं लौकिकं वचनमभिधत्ते । गायनादिसंक्रमितस्ववाक्यतयेति कः साक्षात्कारकल्पार्थः । साक्षात्कारकल्पत्वाध्यवसायगोचरीकार्यत्वं च पाठ्यस्य प्रधानोंऽशः । तेन यथा लोके कश्चिस्कंचिदन्योपदेशगानादिक्रमेण वस्तूद्बोधनकरणद्वारेण वा छन्दोनुप्रवेशितया वा कस्यचिन्मनस्यावर्जनातिशयं विधत्ते. नत्यन्नपि गायनपि, तद्वदेव डोम्बिकाकाव्यादौ द्रष्टव्यम् । ... 'हे वि डोम्बी' इत्यादावपि । वचसि सैव डोम्बिका नरपतिपरितोषकार्थाभिधायिवचननिष्ठेन गीतेन वायेन नृत्येन च राजानमनुरजयितुं गृहीतोद्यमा वक्रीत्वेन पूर्वस्थिता मध्ये काचिदीदृशी चौर्यकामुककेलिलालसमानसा, काचित्पुनरेवंविधा, कश्चिदेवभूतश्चौर्यकामुकः, कोऽप्येवभूतस्तत्र काचिदेवं प्रौढदूतीत्येवमादि राजपुत्रहृदयानुप्रवेशयोग्य तत्प्रसादनेन धनाद्यर्जनोपायमभिदधती तमेव राजपुत्रं परत्वेन तथैव वा समुद्दिश्य अन्यदपि चेष्टितमभिधायान्ते डोम्बिकाकृत्यमेवोपसंहरति । गुणमालायां---
जामि तारा अनुडिअ पुणु णव्वीसमि' ॥ ५८५ ॥ [ ] इत्यादौ तत्र तु सा नृत्यन्ती डोम्बिका बहुतरोपरक्षकगीतादिपटुपेटकपरिवृता त्वां प्रत्येवमहमुपश्लोकितवतीति तन्मध्यवर्तिगायनमुखसंक्रमितनिजवचना लौकिकेनैव रूपेण तद्गीयमानरूपकगतलयतालसाम्येन तावनत्यति । तद्गीयमान. पदार्थस्य च सातिशयमावर्जनीये राजादौ हृदयानुप्रवेशितां दर्शयितुं लौकिकव्यवहारगतहस्तभ्रकर्मरोमाञ्चाक्षिविकारतुल्ययोगक्षेमतयैवाङ्गविकारादिसंभवमप्याक्षिपति । एवं गीतेन रञ्जनं प्राधान्येन विधाय तदुपयोगिनं चाङ्गव्यापार प्रदर्य नत्तेन पुनश्चित्तग्रहणं कुर्वती नत्तं प्रधानभाव गीतं च तदुपसर्जनभाव नयन्ती तत एव तदभिनयमनाद्रियमाणा तद्गीयमानाङ्गभावाक्षिप्ततत्समुचितभाव
मेवाङ्गविक्षेपं करोति लयपरिष्वक्वणादौ । तत्रेयत्यंशे लौकिकमात्रस्वभाव एव २५ रामनटादिव्यवहारवत्का प्रयोज्यप्रयोजकमावाशङ्का । तदनन्तरं च यथैव सा गीत
नृत्तादि प्रायु तथैव तत्सदृशं नर्तकी प्रयुते । न तु डोम्बिकां साक्षात्कार कल्पेन दर्शयति तदीयाहार्यादिना स्वात्मरूपप्रच्छादनाद्यभावात् । तत एव न डोम्बिका साक्षात्कारकल्पेन सा दर्शयति, अपि तु तथैव नृत्तं साभिनयं केवलं
1. A. B. गोचरीकार्य 2. A. B. डोस्थि 3. A. B. तथैवा समु° 4. C. परिष्कवणादौ N. परिष्वत्कणादो . 5. N. तदैव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org