________________
१९९ ) अ. ८ सू. ४] काव्यानुशासनम्
हे देवि डोम्बी णव्वमिसहि होमि हउं । चोरियमिहुणहं वैमहसारु कहेमि तउ ॥ ५८३ || [
1
चतुर्वर्गोपदेशस्य राघव विजयादिरागकाव्येषु दृष्टत्वात् । डोम्बिकादौ तु कामस्यैव प्रच्छन्नानुरागपरमरहस्योपदेशात् । 'यद्वामा मिनिवेशित्वम्' इत्यनेन मम्मथसारत्वेनाभिधानात् । सिंहशूकरधवलादिवर्णनेनापि भाणक प्रेरणभाणिकादावप्रस्तुतप्रशंसार्थान्तरन्यासनिदर्शनादिना पुरुषार्थस्यैवोपदेशदर्शनात् ।
अथ पाठयस्य गेयस्य च रूपकस्य को विशेषः । अयमाख्यायते - पाठये हि-अङ्गं गीतं चेत्युभयमप्रतिष्ठितम् । तथा हि करकरणचारीमण्डलादि यत्तत्राङ्गोपयोगि तत्स्वरूपेण लयादिव्यवस्थया चानियतमेव यथारसं प्रयुज्यमानत्वेन विपर्यासात् । गेये तु गीतमङ्गं च द्वयमपि स्वप्रतिष्ठम् । तथा हि-यस्य यादृशं लययतिस्वरूपादिकं निरूपितं लम्भविपर्येतिमन्त्रादिवत् । यद्यपि क्वचि - द्वर्णा प्राधान्यं यथा प्रस्थानादौ क्वचिद्वादप्राधान्यं यथा भाणकादिषु भग्नतालपरिक्रमणादौ क्वचिद्रीयमान रूपकाभिधेयप्राधान्यं यथा शिङ्गटकादो, क्वचित्तप्राधान्यं यथा डोम्बिलिकादिप्रयोगानन्तरं हुडुक्काराद्यवसरे । अत एव तत्र लोकभाषया वह्निमार्ग इति प्रसिद्धिः । तथापि गीताश्रयत्वेन वाद्यादेः प्रयोग इति गेयमिति निर्दिष्टम् । रागकाव्येषु च गीतेनैव निर्वाहः । तथा हिराघव विजयस्य विचित्रवर्णनीयत्वेऽपि ढक्करागेणैव निर्वाह:, मारीचवधस्य तु ककुभप्रामरागेणैवेति । किं च पाठये साक्षात्कारकरूपानुव्यवसायसम्प्रत्युपयोगिनः पात्रं प्रति भाषानियमस्य नियतस्य छन्दोलङ्कारादेवाभिधानं दृश्यते । गीयमानं च नाभिनीयते असंगत्यापत्तेरपि तु यादृशा लयतालादिना याहगर्थसूचनयोग्योऽमिनयः सात्त्विकादिः प्रधानरसानुसारितया प्रयोगयोग्यस्तदुचितार्थपरिपूरणं ध्रुवागीतेन क्रियते । गेये च सूदादेखि वस्तुभूतरूपरसादिमध्यपातिविषयविशेषयोजनया कृता प्रीतिः साध्या । डोम्बिकादेर्न नटस्येवालौकिकरूपप्रादुर्भावनया ।
3
तथा हि- डोम्बिकादो वर्णच्छटा वर्णादिप्रयोगे तावदमिनयकयैव नास्ति, किं तत्र विचार्यते, केवल नृत्तस्वभावं हि तत् । तदनन्तरं तु धारापरिक्रमपूर्वकलयप्रयोगावसरे ।
पाभाल लेसेसाहिणि हु जय जय लच्छिवच्छलमलिआ ॥५७१॥ इत्यादि यद्गीयते तत्कस्योक्तिरूपम् । यदि तावन्नर्तितुमागताया लौकिक या
1. C. वे. 2. N. हुडुत्काराद्यवसरे
3. N. दौ च
Jain Education International
2
४४७
For Private & Personal Use Only
१०
१५
२५
www.jainelibrary.org