________________
काव्यानुशासनम् [१९९) अ. ८ सू. ४ (60) नृसिंहसूकरादीनां वर्णनं जल्पयेद्यतः ।
नर्तकी तेन भाणः स्यादुद्धताङ्गप्रवर्तितः॥ ___(61) गजादीनां गतिं तुल्यां कृत्वा प्रवसनं तथा ।
अल्पाविद्धं सुमसृणं तत्प्रस्थानं प्रचक्षते ॥ (62) सख्याः समक्षं पत्युर्यदुद्धतं वृत्तमुच्यते ।
मसृणं च क्वचिद्भूर्तचरितं शिङ्गकस्तु सः ।। (63) बालक्रीडानियुद्धादि तथा सूकरसिंहजा ।
धवलादिकृता क्रीडा यत्र सामाणिका मता ॥ (64) हास्यप्रायं प्रेरणं तु स्यात् प्रहेलिकयान्वितम् । (65) ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते ॥ (66) मण्डलेन तु यवृत्तं हल्लीसकमिति स्मृतम् ।
एकस्तत्र तु नेता स्याद्गोपस्त्रीणां यथा हरिः। अनेकनर्तकीयोज्यं चित्रताललयान्वितम् ।
आचतुःषष्टियुगलाद्रासकं मसृणोद्धतम् ॥ १५ तथा हि-डोम्बिकासु नरपतिचाटुकप्राधान्येन प्रवृत्तासु सुकुमारमेव शुद्धं
रूपम् । भाणकेषु नृसिंहादिचरितवर्णने उद्धतमेव । यत्पुनर्मसृणेऽप्युद्धतं प्रविशति तदुचितमेव । तत्राप्यल्पत्वबहुवकृतो भेदः । पूर्वः प्रस्थानप्रबन्धः । उत्तरः शिङ्गटकभेदः । उद्भते तु महणानुप्रवेशाद्भाणिकाभेदः । अन्यदपि प्रेरणरामाक्रीडरासकहल्लीसकादिकमल्पत्वबहुत्ववैचित्र्यकृतमिहैव प्रविष्टं वेदितव्यम् ।
ननु डोम्बिकाशिङ्गटकादौ अन्योन्यानुचितत्वं वाक्यानां ततश्चानन्वये कथं रजकत्वमिति चेत्, न, देवतास्तुतेः स्त्रीपुंभावसमाश्रयस्य च शृङ्गारस्य सर्वत्रानुगमात् । तथा चाह-(132) 'देवस्तुल्याश्रयकृतं स्त्रीपुंभावसमाश्रयम् ।' इति । तत एव चूडामणिडोम्बिकायां प्रतिज्ञातम्
1. I. बालाक्रीडा 2. I.. तें i. e. both matra and anusvara 3. A. B. डोस्थिकासु 2. A. B. कुमार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org