________________
काव्यानुशासनम् [१९८) अ. ८ सू. ३ (58) विष्कम्भकप्रवेशकरहितो यस्त्वेकभाषया भवति
अप्राकृतसंस्कृतया स सट्टको नाटिकाप्रतिमः ॥ इति ॥
मिकफलं च व्युत्पाद्यते । अाराधने तु शत्रूच्छेदपुरःसरा यशोवतंसा लाभ. पालनसमेधनफलविनियोगपर्यन्ता कपटातिसन्धानबहुला सन्धिविग्रहात्मिका राजवृत्तिर्युत्पाद्यते । कामाराधने चानुपजातसंभोगासु च दिव्यासु कुलजासु कृत. शौचासु च स्वाधीनपतिकादिध्वष्टासु परस्परावलोकनादिभिर्दिवा संभोगो रात्रौ वा सोपचार इत्याभ्यन्तरः कामोपभोगो राज्ञस्तासां च राजनि व्युत्पाद्यते। तथा राज्ञामाभ्यन्तरोपभोगे महादेवीदेवीस्वामिनीस्थापिताभोगिनीशिल्पकारिकानाटकीयानर्तक्यनुचारिकापरिचारिकासंचारिकाप्रेषणकारिकामहत्तराप्रतीहारीकुमारीस्थविरायुक्तिकासु यथोचिता राज्ञो वृत्तिस्तासां च यथास्वं राजनि वृत्तिः । तथा स्थापत्यकञ्चुकिवर्षधरोपस्थायिकनिर्मुण्डादीनामन्तर्भवनकक्षासञ्चारः । तथा युवराजसेनापतिमन्त्रिसचिवप्राडिवाककुमाराधि
कृतानां बाह्यसंचारिणां वृत्तम् । तथा विदूषकश कारचेटादिवृत्तं व्युत्पाद्यते । १५ नायकप्रतिपक्षाणां च राज्ञामुक्तगुणविपर्ययादशुभोदयं वृत्तं त्याज्यतया व्युत्पाद्यते।
. प्रकरणे तु सचिवसार्थवाहादीनां पूर्ववत्स्वोचिता त्रिवर्गप्राप्तिस्तदर्जने स्थैर्यधै. र्यादि, व्यापत्स्वमूढता, कुलस्त्रियां वृत्तं कुलस्त्रियाश्च भर्तरि वृत्तिर्वेश्यासु संभोगो वैशिकनायकलक्षणं विटस्य गुणा दूतकर्मणि योज्यविवेको दूतकर्मसमागमे देशकालो
नायिकाया रागापरागलिङ्गानि नायकयोरपरागकारणानि नायिकाहृदयग्रहणप्रयोगः । २०
उत्तममध्यमाधमनायिकालक्षणयौवनलाभाः । चतुरोत्तममध्यमा नायकाः सामदानभेददण्डोपेक्षाणामुपायानां प्रयोगविभाग इत्यादि प्रयोगतो व्युत्पाद्यते ।
नाटिकायां तु विलासपराणां राज्ञां धर्मार्थाविरोधि रतिफलं वृत्तं नाटक इव व्युत्पाद्यते ।
समवकारे च देवासुरनिमित्तो युद्धादिसंभवो विद्रवस्तथा कपट: संक्षिप्तश्च शङ्गारो हास्यादि सर्वमेव लौकिकीभिरुपपत्तिमिहीनं दिव्यप्रभावसाध्यं व्युत्पाद्यते । पूर्वापरानुसन्धानशून्यधियां प्रहसनकपटविद्रवादिरुचीनां पुस्तावप्लुतलङ्कनछेद्यमा. येन्द्रजालचित्रयुद्धादि बहुलयारभट्या परितोष उत्पाद्यते । तथा चाह(181) शूरास्तु वीररोद्रेषु नियुद्धेष्वाहवेषु च ।
___ बाला मूर्खाः स्त्रियश्चैव हास्यशोकभयादिषु ॥ I. A B. drop च 2. A. B. drop प्रेषणकारिका
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org