________________
१९८) अ. ८ स. ३] काव्यानुशासनम्
४४३ धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव ।
एकाको बहुचेष्टः सततं कार्यों बुधैर्माणः ॥१५४॥ (57) सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्तथा त्रयोदशभिः ।
वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा ॥१५५॥
[ ना. शा. अ. १८ (N. S.); अ. २०. श्लो. १०-११, ५ ४९-५४, १०-६३, ६६-६७, ८२-१००, १०६-१०९, ११२-११४, ११६-११७ (C. S. S.)]
'तापस:-(आकाशे ।) भोः ! वाद्वले क्वावकाशे रामभद्रस्तिष्ठति । किं ब्रवीषि । तस्या एव पथिकजनमनोहारिण्याः पुष्करिण्याः परिसरे सीतया लक्ष्मणेन च सह न्यग्रोधच्छायायां सुखोपविष्टस्तिष्ठति ।' । ५८२ । इति । [ ] १०
न केवलं परवचनमभिनयेत् । किं तु प्रतिवचनैः स्वोक्तैः सह एवोत्तरोत्तरप्रथितयोजनाभिरुपलक्षितैः । ननु योऽसावेकोऽत्र प्रविशति स क इत्याहधूर्तेति । नानाप्रकारावस्थाविशेषा लोकोपयोगिव्यवहारात्मका आत्मा वाच्य यस्य । अत एव बहुचेष्टः सततं कार्य इति । सकलसामान्यपृथग्जनोपयोग्यत्र लोकव्यवहारो वेश्याविटादिवृत्तान्तात्मा निरूप्यत इति । बाहुल्येन पृथग्जन- १५ व्युत्पत्युपयोगिरूपकमिदम् । राजपुत्रादीनामपि शंभलीवृत्तान्तो ज्ञेय एवावञ्चनार्थमिति स प्रयोज्य इत्यर्थः । __ सर्वरसेति । सर्वे रसैः शृङ्गारादिभिर्लक्षणैश्च विभूषणादिभिः षट्त्रिंशता तत्साहचर्याद्गुणालद्वारादिभिरपि सर्वैराळ्या । तदुपरि चा त्रयोदशभिर्युक्ता तथा शब्दादुक्तप्रकारव्यतिरिक्तवक्रोक्त्यन्तरसहस्रसंकुलापीत्यर्थः ।
एकाडेति । इतिवृत्तसंक्षेपमस्यां दर्शयति-एकहार्येति । आकाशपुरुषभाषितरित्यर्थः ।
द्विहार्येति । उक्तिप्रयुक्तिवैचित्र्येणेत्यर्थः ।।
पुमर्योपयोगधामीषां प्रदश्यते ! तथा हि-नाटके धर्मार्थकामानामन्यतमस्य गुणीभूतेतरार्थद्वयवृत्तराराधनं राज्ञां वृत्तं नाटये साक्षादिव पश्यन्त उपादेयतया १५ प्रतिपद्यन्ते । तत्रापि धर्माराधने दानतपोयागरूपमनुष्ठान यशस्करं दृष्टफलमामु.
1. A. B. drop पुष्करिण्याः 2. A. drops पयोगि, 3. A. drops रा वृत्तं ना 4. A. drops दान
Jain Education Internațional
For Private & Personal Use Only
www.jainelibrary.org