________________
काव्यानुशासनम् [१९८) अ. ८ सू. ३ भगवत्तापसविगैरन्यैरपि हासवादसंबद्धम् । कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् ॥१४७॥ अविकृतभाषाचार विशेषभावोपपन्नचरितमिदम् । नियतगतिवस्तुविषयं शुद्धं ज्ञेयं ग्रहसनं तु ॥१४॥ वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः ।
अनिभृतवेषपरिच्छदवेष्टितकरणं च संकीर्णम् ॥१४९॥ (56) आत्मानुभूतशंसी परसंश्रयवर्णनाप्रयुक्तश्च ।
विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्व ॥१५२॥ परवचनमात्मसंस्थैः प्रतिवचनैरुत्तरोत्तरप्रथितैः ।
आकाशपुरुषकथितैरङ्गविकारैरभिनयेच्च ॥१५३॥ तदयमर्थः । द्विविधमपि प्रहसनरूपं हास्यरसप्रधानमित्यर्थः । लक्षणविशेष विशेषलक्षणम् । भगवत्तापसविप्रा यतिवानप्रस्थगृहस्थाः। अन्ये शाक्यादयस्तै. रुपलक्षितं हास्यप्रधानवचनसम्बद्धं शीलादिना कुत्सितैः पुरुषैः अत एव प्रहस्य
मानैः सामर्थ्यात्तरेव भगवदादिभिर्युक्तम् । तथापि च भाषाचारौ यत्र न १५ विकृतावसत्याश्लीलरूपी तथा विशेषेण भावैर्व्यभिचारिभिरुपपन्नानि पदानि कथा
खण्डानि यस्मिन् । नियतगति एकप्रकारं यद्वस्तु तद्विषयः प्रहसनीयलक्षणोऽ0 यत्र तच्छुद्ध प्रहसनम् । अत्र निर्वचनं यतः परिहासप्रधानान्याभाषणान्यत्र बाहुल्येन भवन्ति, तेन यत्रैकस्यैव कस्यचिचरितं दुष्टत्वात्प्राधान्येन प्रहस्यते तच्छुद्धमित्यर्थः । यत्र तु वेश्यादिमियोंगोऽत्युल्बणं चाकल्पादि तदेकद्वारेणानेकवेश्यादिचरितेन हसनीयेन संकीर्णत्वात्संकीर्णम् । __आत्मानुभूतशंसीति । एकेन पात्रेण हरणीयः सामाजिकहृदयं प्रा. पयितव्योऽर्थो यत्र स भाणः । एकमुखेनैव भण्यन्ते उक्तिमन्तः क्रियन्ते अप्रविष्टा अपि पात्रविशेषा यत्रेति स भाणः । तत्र स प्रविष्टपात्रविशेष आत्मानुभूतं वा शंसति परगतं वा वर्णयति । तत्र च प्रयोगयुक्तिमाह
परवचनमिति । परसम्बन्धि वचनं स्वयमङ्गविकारैरभिनयेत् । आह-आकाशे यानि पुरुषकथितानि दृष्टानि यत्र धन्ये ते न पश्यन्त्येकश्य पश्यत्याकर्णयति च तत्र तद्वचनं स एवानुवदन् सामाजिकान्बोधयति । यथा रामाभ्युदये--
1. I. अधिकृत 2. I. अनियत° 3. I. परसंशय° L परशंशय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org