________________
१९८) अ. ८ सू. ३ ] काव्यानुशासनम्
एवंविधस्तु कार्यों व्यायोगो दीप्तकाव्यरसयोनिः । (54) वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टिकाङ्कस्य ॥१३८॥
प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् । दिव्यपुरुषैर्वियुक्तः शेषैरन्यैर्भवेत् पुंभिः ॥१३९॥ करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च । स्त्रीपरिदेवितबहुलो निर्वेदितभाषितश्चैव ॥१४॥ नानाव्याकुलचेष्टः सात्वत्यारभटिकैशिकीहीनः ।
कार्यः काव्यविधिज्ञैः सततं ह्युत्सृष्टिकाङ्कस्तु ॥१४१॥ (55) प्रहसनमपि विज्ञेयं विविधं शुद्धं तथा च संकीर्णम् ।
___ वक्ष्यामि तयोर्युक्तया पृथक् पृथग् लक्षणविशेषम् ॥१४॥ १० प्राये युज्यन्ते पुरुषा यत्रेति व्यायोग इत्यर्थः । संघर्षः शौर्यविद्याकुलधनरूपादिकृता स्पर्धा । दीप्तं काव्यमोजोगुणयुक्तम् , दीप्ता रसा वीररौद्राद्याः, तदुभयं योनिः कारणमस्य ।
प्रख्यातेति । प्रख्याते भारतादियुद्धे विषये निमित्त सति यत्र करुणबहुलं चेष्टितं वर्ण्यते तत्प्रख्यातम् । श्रीपर्वतवृत्तान्तवद्भवतु मा वा भूदित्य- १५ । प्रख्यातग्रहणेनोक्तम् । तेनोभयोपादानस्य परस्परविरुद्धार्थत्वादकिञ्चित्करत्वं नाशहनीयम् । दिव्यपुरुषैवियुक्त इति । दुःखात्मकत्वात् ।
शेषैरन्यैरिति । अर्थापत्तिफलम् । करुणो रसः प्रायो यत्रेति काव्यशरीरमुच्यते तत्र कृतः । निवृत्तयुद्धा उद्धताहारा पुरुषा यस्मिन् । परिदेवितं २० दैवोपालम्भात्मनिन्दादिरूपमनुशोचनं यत्र । निर्वेदितानि येषु श्रुतेषु निर्वेदो जायते ताशि भाषितानि यत्र । व्याकुलाश्चेष्टा भूमिनिपातविवर्तिताद्याः ।
सारखत्यारभटिकैशिकीहीन इति । समाहारद्वन्द्वगर्भद्वन्द्वान्तरगर्भस्तृतीयासमासः । उत्क्रमणोन्मुखा सृष्टिीवितं प्राणा यासां ता उत्सृष्टिकाः शोचन्त्यः स्त्रियस्ताभिरडित इति तथोक्तः ।
प्रहसनमपीति । अपिशब्दो भिन्नक्रमः । तथेति । सामान्यलक्षणम् । 1. A. B. स्त्रीपर्वत 2. I. drops तादृशि; C. तादृशि भाषणानि 3. A. B. drop द्वन्द्वगर्भ; C. गर्भ 4. A. B. C. उत्क्रमेणोन्मुखा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.or