________________
४४०
१०
१५
२०
२५
काव्यानुशासनम् [ १९८) अ. ८ सू. ३
षोडशनायक बहुलः सात्त्वव्यारभटिवृत्तिसंपन्नः । कार्यो डिमः प्रयत्नान्नानाश्रयभावसंयुक्तः ॥ १३४॥
1
( 53 ) व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः । अल्पस्त्रीजनयुक्तस्वेकाहकृतस्तथा चैव ॥१३५॥
2
बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे न तु तत्प्रमाणयुक्तः कार्यस्वेकाङ्क एवायम् ॥ १३६॥ न च दिव्यनायककृतः कार्यों राजर्षिनायक निबद्धः । युद्ध नियुद्धाघर्षण संघर्ष कृतश्च कर्तव्यः ॥ १३७ ॥
देवादयो बाहुल्येनात्र । बहुलग्रहणं व्यभिचारार्थम् । तेन न्यूनाधिका अपि नायकाः प्रयोज्याः । सावती चारभटो चेति ( 179 ) द्वन्द्वेऽप्राणिपश्वादेः' इत्येकवद्भावो (180) 'द्वन्द्वैकत्वाव्ययीभावौ' इति नपुंसकलिङ्गता व । वृत्तिसमुदाये च वर्तमानेन वृत्तिशब्देन कर्मधारयः । तया सम्पन्नः । डिम्भो डिम्बो विद्रव इति पर्यायास्तद्योगादयं डिमः ।
नानाश्रयभावसम्पन्न इति । नानेत्येकस्यान्योऽपरस्यान्य इति नानारूप आश्रयेो येषां ते नानाश्रया भावास्तैः सम्पन्नः । बहूनां नायकानां विभागेन हि भावा व्यवतिष्ठन्ते । अत एवेति वृत्तवैचित्र्यमत्रोपदिशन्ति ।
Jain Education International
व्यायोगस्त्विति । व्यायोगः पुनर्डिमस्यैव शेषभूतो दिव्यनायकाभावात् केवलमत्रोदात्तस्य राजोदर्न नायकता, अपि त्वमात्यसेनापतिप्रभृतेर्दीप्तरसस्य । अत एव प्रख्यातनायकेत्यत्र उदात्तग्रहणं न कृतम् । शरीरमितिवृत्तम्, प्रख्यातो नायकः शरीरं च यत्र स तथा । अल्पश्च स्त्रीजनश्च तेन युक्तः । टयादिना न तु नायिकादूत्यादिभिः कैशिकीहीनत्वात् ।
एकाकृत इति । एकदिवस निर्वर्त्य यत्कार्यं तत्र कृतः । यथा समवकार इति । द्वादशेत्यर्थः । तावदङ्कपरिमाणाशङ्कामतिदेशात्प्रत्यासत्त्या वा प्रसक्तां वारयितुमाह
3
एकाङ्क एवेति । एवकारेण एकाहचरितविषयत्वान्न्यायप्राप्तमेवात्रैकाङ्कत्वमित्याह - ननु प्रख्यातनायकशब्देन किमत्रगृहीतमित्यतिप्रसङ्ग शमयतिन चेति चो भिन्नक्रमः । दिव्येर्देवैर्नृपैर्ऋषिभिव नायकैर्न निबद्धोऽयं भवतीत्यर्थः ।
ननु कस्मादयं व्यायोग इत्याह-युद्ध नियुद्धेति । व्यायामे युद्ध नियुद्ध -
1. I. व्यायामस्तु
3. A. B. वारयति
2. L व्यावर्तते
4. N. व्यायोगे
For Private & Personal Use Only
www.jainelibrary.org