________________
१९८) अ. ८ सू.. ३ ]
काव्यानुशासनम्
1.
ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च ॥१२६॥ यद्वयायोगे कार्य ये पुरुषा वृत्तयो रसाश्चैव
ईहामृगेऽपि तत्स्यात् केवलमत्र स्त्रिया योगः ॥१२७॥ (52) प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव ।
षड्रसलक्षणयुक्तश्चतुरको वै डिमः कार्यः ॥१३०॥ शृङ्गारहास्यवर्ज शेषैरन्यै रसैः समायुक्तः । दीप्तरसकाव्ययोनिर्नानाभावोपसंपन्नः ॥१३१॥ निर्घातोल्कापातैरुपरागेणेन्दुसर्ययोर्युक्तः। युद्धनियुद्धाधर्षणसंस्फेटकृतश्च विज्ञेयः ॥१३२॥ मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्च । देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥१३३॥
ईहा चेष्टा मृगस्येव स्त्रीमात्रार्था यत्र । सुसमाहितकाव्यबन्ध इत्यनेन वीथ्यङ्गानि अत्र योज्यानीति दर्शयति । अपरिमाण नायकसंख्या वृत्तिरसविभागं च व्यायोगातिदेशेनाह-यदिति । कार्यशब्देनाङ्क उच्यते । तेन एक एवाङ्कः । नायकास्तु द्वादश समवकारातिदेशेन व्यायोगे तल्लाभात् । १५ भत्र तु समवकारातिदेशेन सर्वासम्पत्तेगौरवं स्यात् । __ प्रस्यातेति । षड्सा यस्मिन् तल्लक्षणं षड्रस तेन युक्तः । नाटकतुल्यं सर्वमन्यत्केवलं सन्धीनां रसानां चासमग्रतात्र । शङ्गारहास्यवर्ज षड्रसस्वे उक्ते पर्यायेण शान्तस्य प्रयोगः स्यादित्याह-दीप्तरसेति । दीप्ता रसा वीररौद्रादयस्ते कान्ययोनियंत्र। नानाविधा भावा व्यभिचारिणः। आधर्षणं २० बलात्काररूपः पराभवः। माया शब्दरूपादीनामन्यथापादनमसतां वा प्रकाशनम् । पुस्तं लेप्यकिलिजचर्मवस्त्रकाष्टकृतानि रूपाणि ।
1. In ना. शा. the latter part is कार्यश्चतुरङ्कविभूषितश्चैव 2. I. संस्फोट° 3. N. drops दर्शयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org