________________
४३८ काव्यानुशासनम् [१९८) अ. ८. सू. ३
त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्रिशृङ्गारः ।
द्वादशनायकबहुलो ह्यष्टादशनालिकाप्रमाणश्च ॥११०॥ इति (51) दिव्यपुरुषाश्रयकृतो दिव्यत्रीकारणोपगतयुद्धः ।
सुविहितवस्तुनिबद्धो विप्रत्ययकारणश्चैव ॥१२४॥ उद्तपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च । संक्षोभविद्रवकृतः संस्फेटकृतस्तथा चैव ॥१२॥
स्त्रीभेदनापहरणावमर्दनप्राप्तवस्तुशृङ्गारः । चेतनकृतमन्यकृतमुभयकृतं वा यदनात्मक वस्तु यतो विद्रवन्ति जना स विद्रव इति । तत्र चेतनं गजेन्द्रादि । अचेतन जलवाय्वादि । उभयं नगरोपरोधादि । तस्य युद्धाग्निदानादिसम्पाद्यत्वात् । शृङ्गारस्त्रिधा-धर्मार्थकामभेदात् । धर्मो यत्र हेतुः साध्यों वा नायिकालाभे स धर्मशृङ्गारः । एवमर्यकामयोवाच्यम् ।
अथ नायकयोग कार्यनिष्पत्तिकालविभागं चाह-द्वादशेति । द्वादशनायकबहुल इति प्रत्यङ्कमिति केचित् । अन्ये तु प्रत्यकं नायकप्रतिनायको तत्सहायौ चेति चतुर आहुः । समुदायापेक्षया हि द्वादशेति । बहुलग्रहणान्यूनाधिकत्वेऽप्यदोषः ।
अष्टादशेति । अष्टादशनालिकमेव तत्र कार्य निबन्धनीयमित्यर्थः ।
दिव्येति । दिव्यानां पुरुषाणां च यदाश्रयणं नायकतया तेन कृतः । दिव्यस्त्रीनिमित्तमुपगतं युद्धं यत्र ।
दिव्यानुप्रवेशात्समवकारवदसम्बद्धार्थता मा प्रसाक्षोदित्याह-सुविहितेन संश्लिष्टेन वस्तुना निबद्धः विगतानि प्रत्ययकारणानि विश्वास. हेतवो यत्र । मध्ये चात्र दिव्यानामपि प्रवेशो भवतीति दर्शयति ।
उद्धतेति । उद्धता उद्वृत्ताः पुरुषाः प्रायेण यत्र स्त्रीनिमित्तको रोषः । संक्षोभ आवेगः । विद्रवो व्याख्यातः । संस्फेटो विरोधिनां विद्याविक्रमसंघर्षजो व्यासङ्गः । तथेत्युक्तसादृश्यार्थः । चः समुच्चये । एवशब्दोऽवधारणे। एतलक्षणयुक्त एवेत्यर्थः । स्त्रीनिमित्तं यानि भेदनापहरणावमर्दनानि यथायोगं स्त्रीविषयाण्यन्यविषयाणि वा तैः प्राप्तं वस्त्वधिष्ठानं प्रमदालक्षणं तस्य तादृशः शृङ्गारो यस्मिन् । भेदसामदानादिना । अनमर्दनं दण्डः ।
1. I. संस्फोट° 2. A. B. मेदनाप्रहरणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org