________________
१९८) अ. ८. सू. ३ ] काव्यानुशासनम्
राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । नायक देवदूती सपरिजना नाटिका ज्ञेया ॥ १०८ ॥
समवकारस्तु
3
(50) देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव ॥ १०९ ॥
बत्वारोऽङ्का यस्याम् । कस्याश्चिदवस्थायाः सरसेऽवस्थान्तरे समावापः कर्तव्य इति यावत् । सुष्टुपूर्णतया विहितानि चत्वार्यपि केशिक्यङ्गानि यत्र । एतेन
४३७
5
त्रोप्रायेति ललितेति बहुनृत्तेति च कैशिकीवृत्तिबाहुल्य दर्शयति । रतिपुरःसरः संभोगो राज्यप्रात्यादिलक्षण आत्मा प्रधानभूतं फलं यस्याम् । अत एवाहराजगतैरुपचारैर्व्यवहारैर्युक्ता । अन्यां चेदुद्दिश्य तत्र व्यवहारस्तदा पूर्वनायिकागतैः क्रोधप्रसादनवञ्चनैरवश्यं भाव्यमिति दर्शयति — प्रसादनेति । आर्यानुरोधात्क्रोधस्य पश्चात्पाठः ।
१०
ननु यस्याः क्रोधो भवति सा न कदाचिदुक्तेत्याशङ्कयाह — नाथ के ति । नायकस्य येयं देवी आद्यनायिका तथाभिलषितनायिकान्तरविषया येयं दूती तत्कृतं सपरिजनं परिजनसमृद्धिर्यस्याम् ।
देवासुरेति । देवासुरस्य यद्वीजं फलसम्पादनोपायस्तेन कृतो विरचितः देवासुरा अपि चाप्रख्याता बृहत्कथादौ श्रूयन्ते स्वयं वा केनचित निरासार्थं प्रख्यातपदम् । यद्यपि देवाः पुरुषापेक्षया उद्धतास्तथापि स्वापेक्षया गाम्भीर्यप्रधानतया - उदात्ता उच्यन्ते भगवत्रिपुररिपुप्रभृतयः, प्रशान्ता ब्रह्मादयः, उद्धता नृसिंहादयः । अर्थत्रयस्य तावत्येव समापना त्र्य इत्युक्तम् । पटो वचना मिथ्याकल्पितः सत्यानुकारी प्रपञ्च इत्यर्थः । स त्रिधा - यत्रानपराद्ध एव वञ्चकेन वञ्चयते स एकः । यत्र तु वञ्चनीयोऽपि सापराधः स द्वितीयः । यत्र तु द्वयोरपि न कश्चिदभिसन्धिदोषः काकतालीयेन तु तुल्यं • फलाभिसन्धानवतोरप्येक उपचयेनापरस्त्वपचयेन युज्यते स दैवकृतस्तृतीयः ।
1. L देव
2. In the Nātya Sāstra the second line is: प्रकरणनाटकनाटी - लक्षणमुक्तं समासेन |
3. L drops from देवासुर to ° आरभटीवृत्ति ie about twenty lines of the verses
4. स्थानान्तरे
5. बहु
Jain Education International
For Private & Personal Use Only
१५
२०
www.jainelibrary.org