________________
काव्यानुशासनम् [१९८) अ. ८. सू. ३ . दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम् ।
मन्दकुलस्त्रीचरितं काव्यं कार्य प्रकरणे तु ॥९८॥ ( 49 ) प्रकरणनाटकभेदादुत्पाद्य वस्तु नायकं नृपतिम् ।
अन्तःपुरसंगीतककन्यामधिकृत्य कर्तव्या ॥ [ ना. शा. अ. २०, श्लो. ६०-६१ ( C. S. S.)] स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी ।
बहुनृत्तगीतवाद्या रतिसंभोगात्मिका चैव ॥१०७॥ राज्ञः प्रवेशं शङ्कमानो निराकरोति-न राजसंभोग इति । यदि वात्रोत्प. त्तिकत्वेऽपि न राजोचितसंभोगोत्प्रेक्षा विप्रादिषु करणीयेत्यनेन शिक्षयति । अत एव राजनि य उचितोऽन्तःपुरजनः कञ्चकिप्रभृतिस्तद्यतिरिक्तो बाह्यजनोऽत्र चेटदासादिः प्रवेशकादौ कार्य इत्यर्थः ।
एतदेव दर्शयति-दासविटेति । कञ्चुकिस्थाने दासः, विदूषकस्थाने विटः, अमात्यस्थाने श्रेष्ठीत्यर्थः । वेश्यावाटो वेशस्तत्र या स्त्री तस्या उपचारो वैशिके प्रसिद्धः स कारणं यस्य शृङ्गारस्य तेनोपेतम् । कुलस्त्रीविषयं चेष्टितं मन्दं यत्रेति ।
प्रकरणेति । बहुषु प्रकरणभेदेषु नाटकभेदेषु च स्त्रीप्राप्तिफलात्संभोगशृङ्गारप्रायात् कैशिकीप्रधामाच्च प्रकरणभेदानाटकभेदाच नाटिका आयेति दूरेण सम्बन्धः ।
उत्पाद्यं वस्तुचरितं नायकं च नृपतिमन्तःपुरकन्यां संगीतकशालाकन्यां चाधिकृत्य प्राप्यत्वेनाभिसन्धाय कर्तव्या च । तेन स्त्रीप्राप्तिः संभोगशृङ्गारोऽभ्यन्तरे कैशिकी च वृत्तिः । तथा-अवस्थासन्ध्यार्थप्रकृतिपताकाप्रकरीपताकास्थानाङ्कविष्कम्भकप्रवेशकादीन्युभयभेदसाधारणानि नाटिकायां प्रयोज्यानि । यदपि किश्चिदसाधारणं तदपि योज्यते । अतश्च ‘उत्पाद्यं वस्तु' इति प्रकरणधर्मः । 'नायकं नृपतिम्' इति नाटकधर्मः । 'अन्तःपुरसंगीतककन्याम्' इति कन्यायोगे ईर्ष्याविप्रलम्भश्च नाटकधर्म एव ।।
अथास्या विशेषलक्षणमाह-स्रोप्रायेति । स्त्रियः प्रायेण बाहुल्येन यत्र । 1. J. बहुगीतनत्त 2. A. B. मदं
+ प्रकरणनायकभेदा° (ना. शा. C. S. s.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org