________________
१९८) अ. ८ सू. ३ ] काव्यानुशासनम्
यत्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च । तत्प्रकरणेऽपि योज्यं सलक्षणं सर्वसंधिषु तु ॥९५॥ विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् । चरितं यत्नेकविधं तज्ज्ञेयं प्रकरणं नाम ॥९६॥ नोदात्तनायककृतं न दिव्यचरितं न राजसंभोगः ।
बाह्यजनसंप्रयुक्तं तज्ज्ञेयं प्रकरणं नाम ॥९७॥ ननु च तत्रांशे कविकृतत्वाभावात्कथं प्रकरणवाचोयुक्तिरित्याह-उत्पन्ने पूर्वसिद्धे बीजं वस्तु च यत्र तादृशमपि तद्यदिति यस्मादभूतैर्वृहत्कथादौ काव्यान्तरे वा प्रसिद्धैर्गुणैर्युक्तं प्रकरोति तदिति तस्माद्धेतोरेतदपि प्रकरणम् । तेन बृहत्कथादिसिद्धस्य मूलदेवादेरधिकावापं कविशक्तिर्यदा विधत्ते तदा प्रक- १० रणम् । एवं पूर्वकविसमुत्प्रेक्षितसमुद्रदत्तचेष्टितादिवर्णनेऽप्यधिक्रावा. विदधकविः प्रकरणं कुर्यादिति तात्पर्यम् ।
नन्वस्येतिवृत्तस्य कथं योजनेत्याशङ्कय पूर्वोक्तमेवातिदेशद्वारेण स्मारयितुमाह-यन्नाटके इति । 'नानाविभूतिभिर्युतमृद्धिविलासादिभिः' इत्यादिना यत्फलवत्त्वमुक्तं तद्वस्तुशरीरमित्यङ्कप्रवेशकाव्यम् ।
वृत्तिभेदाचेति । नानारसभावचेष्टितैर्बहुधा सुखदुःखोत्पत्तिकृतमिति ।
सलक्षणमिति । लक्षणमङ्कपरिमाणम् । अङ्कान्तरसन्धानहेतुषु च प्रवे. शकेषु यत्प्रयोज्यमुक्तं दिवसावसानकार्य यद्यकेनोपपद्यत इत्यादि तत्सर्व प्रकरणे. ऽपि योज्यम् ।
अतिदेशायातमतिप्रसङ्गं वारयत्याद्वयेन-विप्रेत्यादि । अमात्योऽधिकृतः । सार्थवाहो दिगन्तरात्पण्यानामाहर्ता । तद्देशक्रयविक्रयकृतो वणिजोऽन्य एव । नेकविधमित्यनेकरसयुक्तमित्यर्थः । नैकरसान्तरयुक्त इति ।।
तदिति तदतिदेशमात्रमिति सूचितम् । प्रख्यातोदात्तेत्यतिप्रसक्तं निषेधयति । नोदात्तेति । तन्निषेधे चान्नाटकवैपरीत्यमायातम् ।
नाटके च देवो नायकत्वेन निषिद्ध इति प्रकरणे कर्तव्यत्वेनापाद्यत इत्यत १५ आह-न दिव्यचरितमिति । तथा दिव्याश्रयमिति यदतिदेशाद्देवानामुपायत्वेन प्रयोज्यत्वं प्रसक्तम् , तदप्यनेन निषिद्धम् । नाटके देवानामिवेहापि
1. A. interpolates 'श्वेतिनारसभाव' between वाति and देश 2. A. B. नोत्पद्यत 3. A. B. प्रयोज्यमाप्रसक्तं
१५
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org