________________
काव्यानुशासनम् [१९८) अ. ८. सू. ३ (48) अत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव ।
औत्पत्तिकं प्रकुरुते प्रकरणमिति तद् बुधैज्ञेयम् ॥१३॥ यदनार्षमथाहार्य काव्यं प्रकरोत्यभूतगुणयुक्तम् । उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥९॥
-
प्यर्थकामों सर्वजनाभिलषणीयाविति तद्वाहुल्यं दर्शनीयमिति । ऋद्धिविलासादिभिरिति । ऋद्धिरर्थस्य राज्यादेः सम्पत्तिः । विलासेन कामो लक्ष्यते । आदिशब्दः प्रधानवाची। तत्प्रधानाभिः फलसम्पत्तिभिर्युक्तमित्यर्थः । तेन राज्ञा सर्व राज्य ब्राह्मणेभ्यो दरवा वानप्रत्यं गृहीतमित्येवंप्रायं फलं नोपनिबन्द्रव्य धर्ममोक्षबहुलमिति । दृष्टसुखार्थी हिं बाहुल्येन लोक इति तत्रास्य प्रतीतिर्विरसीभवेत् ।।
गुणैरिति । अप्रधानभूतानि यानि चेष्टितानि हेयानि प्रतिनायकगतान्यपनयप्रधानानि तैर्युक्तम् । तेषां पूर्वपक्षस्थानीयानां प्रतिक्षेपेण सिद्धान्तकल्पस्य नायकचस्तिस्य निर्वाहाज्जनपदकोशादिसम्पत्तिद्धिः । कौमुदीमहोत्सवादयो विलासाः । सन्धिविग्रहादयो गुणा इति चाणक्यपरिचयावेदनमात्रफलम् । वस्तुशब्देन राजर्षिवंश्यचरितशब्देन च सर्वस्याप्यर्थराशेः संग्रहात् । अवान्तरवस्तुसमाप्तौ विश्रान्तये ये विच्छेदा अङ्कास्तैः पश्चाद्यैर्दशान्तैर्ये च निमित्तबलादप्रत्यक्षदृष्टानां चेष्टितानामावेदकाः प्रवेशकास्तैश्चाढथं तबाट नाम रूपकम् ।
आत्मशक्त्येति । इतिहासादिप्रसिद्धिं निरस्यति । बस्त्विति । साध्य फलम् । शरीरमात । तदुपायम् ।
नायकमिति । साधयितारम् । चकारः सर्वसमुच्चये। द्वितीयस्त्वसमप्रसमुच्चये । एवकारः समुच्चयाभावे । उत्पत्तो भवमोत्पत्तिकं निर्मितम् ।
तदयमर्थः-त्रितयमपि यत्र कविकृत द्वयमेकं च । अन्यत्तु पूर्वोपनिबद्धं तत्सर्व प्रकरणं भेदसप्तकमयम् । वस्त्वादिकं काव्यामिधेयमात्मशक्त्या २५ प्रकुरुते यत्र काव्ये तत्प्रकरणमिति बुधयमिति सम्बन्धः ।
___ यत्र न समुत्पाद्यं भवति तत्र योऽनुत्पाद्योऽशः स कुत्रस्थो ग्राह्य इति दर्शयितुमाह-यदनार्षमिति । पुराणादिव्यतिरिक्तवृहत्कथायुपनिबद्धं मूलदेवतच्चरितादि ।
आहार्यमिति । पूर्वकविकाव्याद् वाहरणीयं समुद्रदत्ततच्चेष्टितादि । 1. C. drops कामौसर्व 2. N. अर्थस्य राशेः 3. A. B. drop तदयमर्थः 4. A: drops यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org