________________
काव्यानुशासनम् [अ. १. सू. १० - हरितयोः, कृष्णश्यामयोः, पीतरक्तयोः, शुक्लगौरयोः, चन्द्रे शशमृगयोः,
तटे सत्यस्योच्चैः स्वसलिलनिवहो भाति नीलः स यस्याः
प्रियस्यांसे पीने लुलित इव धनः केशपाशः सुकेश्याः ॥१६॥ कृष्णहरितयोरैक्यं यथा
मरकतसदृशं च यामुनं स्फटिकशिलाविमलं च जाह्नवम् । तदुभयमुदकं पुनातु वो हरिहरयोरिव संगतं वपुः ॥ ९७ ॥
कृष्णश्यामयोरैक्यं यथा
एतत्सुन्दरि नन्दनं शशिमणिस्निग्धालवालद्रुमं मन्दाकिन्यभिषिक्तमौक्तिकशिले मेरोस्तटे नन्दति । यत्र श्यामनिशासु मुञ्चति मिलन्मन्दप्रदोषानिला
मुद्रामामरयोषितामभिरतं कल्पद्रुमश्चन्द्रिकाम् ॥ ९८ ॥ पीतरक्तयोरक्यं यथा
लेखया विमलविद्रुमभासा । संततं तिमिरमिन्दुरुदासे ॥ दंष्ट्रया कनकभङ्गपिशङ्गया । मण्डलं भुव इवादिवराहः ॥ ९९ ॥ .
[कि. स. ९. श्लो. २२ ] शुक्लगौरयोरैक्यं यथा
कैलासगौरं वृषमारुरुक्षाः पादापर्णानुग्रहपूतपृष्ठम् । अवेहि मां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥१०॥
[ र. वं. स. र. श्लो. ३५ ] एवं वर्णान्तरेष्वपि । चन्द्रे शशमृगयोरैक्यं यथा
मा भैः शशाङ्क मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं बिभेषि । प्रायो
विदग्धवनितानवसंगमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥ १०१ ॥
1. A. B. यस्या. C. यश्चास्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org