SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ॥ अष्टमोऽध्यायः॥ अथ प्रबन्धात्मककाव्यभेदानाह १९६) काव्यं प्रेक्ष्यं श्रव्यं च ॥१॥ नानृषिः कविरिति कवृ वर्णन इति च दर्शनाद्वर्णनाच कविस्तस्य ५ कर्म काव्यम् । एवं च दर्शने सत्यपि वर्णनाया अभावादितिहासादीनां न काव्यत्वमिति तल्लक्षणं न वक्ष्यते । तथा चाह भट्टतोतः ---- (46) नानृषिः कविरित्युक्तमृषिश्च किल दर्शनात् । विचित्रभावधर्माशतत्त्वप्रख्या च दर्शनम् ॥ स तत्वदर्शनादेव शास्त्रेषु पठितः कविः । दर्शनाद्वर्णनाचाथ रूढा लोके कविश्रुतिः ॥ तथा हि दर्शने स्वच्छे नित्येऽप्यादिकवेर्मुनेः । नोदिता कविता लोके यावज्जाता न वर्णना ॥ इति ॥ प्रेक्ष्यमभिनेयम् । श्रव्यमनभिनेयम् । प्रेक्ष्यं विभजते १९७) प्रेक्ष्यं पाठयं गेयं च ॥२॥ तत्र पाठ्यं भिनत्ति । १९८) पाठयं नाटकप्रकरणनाटिकासमवकारेहामृगडिमव्यायोगोत्सृष्टिकाङ्कमहसनभाणवीथीसट्टकादि ॥३॥ तथा च नाटकादीनि वीथ्यन्तानि वाक्यार्थाभिनयस्वभावानि भरतमुनिनोपदर्शितानि, सदृकश्चकैश्चित् । यथा(47) प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव । राजर्षिवंश्यचरितं तथैव दिव्याश्रयोपेतम् ॥१०॥ प्रख्यातेति । प्रख्यातमितिहासाख्यानादिना वस्तुविषयो यस्य । तत्र हि लोकस्य कथापरिचयादादरातिशयो भवति । यद्वा प्रकर्षेण ख्यातं वस्तु चेष्टितं I. I. अन्तर्भावादि० 2. L. drops नेयं 3. I. drops श्रव्यमनमिनेयं 4. A. B. °णाख्यात Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy