________________
काव्यानुशासनम् [१९३-९५) अ.७ सू. ५०-५२, कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमत्या नतिमति । न दृष्टैः शैथिल्यं मिलत इति चेतो दहति मे निगूढान्तःकोपा कठिनहृदये संवृतिरियम् ॥७३८॥
[अ. श. श्लो. १४.] १९३) अचापलाविकत्यनत्वे धैर्यम् ॥५०॥ चापलानुपहतत्वमात्मगुणानाख्यानं धैर्यम् । यथाज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ।।७३९॥
[मा. मा. अं. २ श्लो. २] १९४) प्रश्रय औदार्यम् ॥५१॥ अमर्षेक्रिोधाद्यवस्थास्वपि प्रश्रय औदार्यम् । यथाभ्रभङ्गे सहसोद्गतेऽपि वदनं नीतं परां नम्रतामोषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् । अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं क्रोधश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः ॥७४०॥
[र. अं. २. श्लो. २०] १९५) प्रयोगे निःसाध्वसत्वं प्रागल्भ्यम् ॥१२॥ प्रयोगे कामकलादौ चातुःषष्ठिके इत्यर्थः । यदाह
1. I. नतिमतिः । प्रतिवचनमति: i. e. drops मत्यानति 2. I. मिलित L मिलति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org