________________
काव्यानुशासनम् [१९०-९१) अ. ७ स. ४७-४८ पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणं कृताशीर्माल्येन तां निर्वचनं जघान ॥७३२॥
[कु. सं. स. ७. लो. १९. ] केचित् (43) बालयकुमारयौवनसाधारणविहारविशेष क्रीडितम् , ५ क्रीडितमेव च प्रियतमविषयं केलिं चालङ्कारौ आहुः [ ] यथा
मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च । रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥७३३॥
[कु. सं. स. १. श्लो. २९ ] व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी॥७३४॥
[कि. स. ८. श्लो. १९] १९०) शोभादयः सप्तायत्नजाः ॥४७॥
शोभाकान्तिदीप्तिमाधुर्यधैर्योदार्यप्रागल्भ्यनामानः सप्तालङ्कारा अयत्नजाः। ___ क्रमेण लक्षयति
१९१) रूपयौवनलावण्यैः पुंभोगोपबृंहितैर्मन्दमध्यतीवाइच्छाया शोभा कान्तिीप्तिश्च ॥ ४८ ॥
तान्येव रूपादीनि पुरुषेणोपभुज्यमानानि च्छायान्तरं श्रयन्तीति
अनेनेति । अलक्तकोपरक्तस्य हि चन्द्रमसि परभागलाभः । अनवरतपादपतनप्रसाद विना न पत्युझटिति यथेठानुवर्तिन्या भाव्यमिति वोपदेशः । शिरोविधता च या चन्द्रकला तामपि परिभावयेति सपत्नीलोफावजय उक्तः ॥
॥ इति भाचार्यश्रीहेमचन्द्रविरचिते विवेके सप्तमोऽध्यायः ॥ 1. I. चरणौ 2. I. व्यपोहित 3 N. परिभवेति 4. N. लोकविजय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org