SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ १८६-८९) अं. ७ सं. ४३-४६ ] काव्यानुशासनम् ४२७ १८६) अधरादिग्रहाद् दुःखेऽपि हर्षः कुद्दुमितम् ॥४३॥ अधरस्तनकेशादीनां ग्रहणात् । प्रियतमेनेति शेषः । दुःखेऽपि हर्षः कुटुमितम् । यथा ईषन्मीलितलोललोचमयुगं व्यावर्तितभूलतं संदष्टाधरवेदनाप्रलपितं मा मेति मन्दाक्षरम् । तन्वङ्गयाः सुरतावसानसमये दृष्टं मया यन्मुखम् स्वेदार्दीकृतपाण्डुगण्डपुलकं तत्केन विस्मार्यते ॥७३०॥ १८७) मसृणोऽङ्गन्यासो ललितम् ॥४४॥ अङ्गानां हस्तपादभ्रनेत्राघरादीनां मसृणः सुकुमारो विन्यासो १० छलितम् । यथा सभ्रूभङ्गं करकिसलयावर्जनैरालपन्ती सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया स्वैरपातैनिःसंगीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ॥७३१॥ १५ 1 [धनिकस्य. दशरूपकावलोक प्र. २. सू. ४२.] १८८) कर्तव्यवशादायाते एव इस्तादिकर्मणि यद्वैचित्र्यं स विलासः ॥४५॥ यत्र तु बाह्यव्यापारयोग एव न कश्चिदस्ति नादातव्यबुद्धिरथ च । सुकुमारकरादिव्यापारणं तल्ललितम् । अन्ये तु (42) 'लड विलासे' इति पाठं प्रमाणयन्तो विलासमेव सातिशयं ललितसंज्ञमाहुः [ ]। १८९) व्याजादेः प्राप्तकालस्याप्यवचनं विहृतम् ॥४६॥ घ्याजो मौग्ध्यादिप्रख्यापनाशयः । आदिग्रहणान्मौग्ध्यलज्जादिपरिग्रहः । ततो भाषणावसरेऽप्यभाषणं विहृतम् । यथा 1. P. खेदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy