SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ + ४२६ काव्यानुशासनम् [ १८३-८५) अ. ७ सू. ४०-४२ १८३) वागङ्गभूषणानां व्यत्यासो विभ्रमः ॥४०॥ सौभाग्यगर्वाद्वचनादीनामन्यथा निवेशो व्यत्यासो विभ्रमः । वचनेऽन्यथा वक्तव्येऽन्यथा भाषणम् । हस्तेनादातव्ये पादेनादानम् । रसनायाः कण्ठे न्यासः । यथा चकार काचित्सितचन्दनाङ्के काश्चीकलापं स्तनभारपृष्ठे । प्रियं प्रति प्रेषितचित्तवृत्ति नितम्बबिम्बे च बबन्ध हारम् ॥७२७॥ [ ] १८४) स्मितहसितरुदितभयरोषगर्वदुःखश्रमाभिलाषसङ्करः १० किलिकिश्चितम् ॥४१॥ सौभाग्यगर्वास्मितादीनां सङ्करः किलिकिश्चितम् । यथा रतिक्रीडायते कथमपि समासाद्य समयं मया लब्धे तस्याः क्वणितकलकण्ठार्धमधरे । कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदितस्मितक्रुद्धोद्रान्तं पुनरपि विदध्यान्मयि सुखम् ॥७२८॥ [धनिकस्य. दशरूपकावलोक. प्र. २. स. ३९. ] १८५) मियकयादौ तद्भावभावनोत्था चेष्टा मोहायितम् ॥४२॥ प्रियस्य कथायां दर्शने वा तद्भावभावनं तन्मयत्वम् । ततो योद्भता चेष्टा लीलादिका सा मदनाङ्गपर्यन्ताङ्गमोटनान्मोडायितम् । यथास्मरदवथुनिमित्तं गूढमन्वेतुमस्याः सुभग तव कथायां प्रस्तुतायां सखीभिः । हरति विनतपृष्ठोदप्रपीनस्तनाग्रा नतवलयितबाहुज़म्भितैः साङ्गभङ्गैः ॥७२९॥ [धनिकस्य. दशरूपकावलोक. प्र. २, स. ४०.] + In I. etapa to Farsta: is written on the margin which is much soiled. 1. L drops from ततो to निमित्तं. 2. P. तप० . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy