SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४२४ काव्यानुशासनम् [१७८-७९) अ. ६ सू. ३५-३६ न मन्यते केवलं तत्संस्कारबलतस्तथा विकारान् करोति यैईष्टा तथा कल्पयति । यथा स्मितं किश्चिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः । गतीनामारम्भः किसलयितलीलापरिकरः स्पृशन्त्यास्तारुण्य किमिव हि न रम्यं मृगदृशः ॥७२॥ [सुभा. श्लो. २२३६ ] __यदा तु रतिवासना प्रबोधार्ता प्रबुद्धां रतिमभिमन्यते केवलं समुचितविभावोपग्रहविरहानिर्विषयतया स्फुटोभावं प्रतिपद्यते तदा १० तजनितबहुतराङ्गविकारात्मा हेला, हावस्य सम्बन्धिनी क्रिया । प्रसरत्ता वेगवाहित्वमित्यर्थः । वेगेन हि गच्छन् हेलतीत्युच्यते लोके इति । एवं चोद्भिद्योद्भिद्य विश्राम्यन् हावः । स एव प्रसरणैकस्वभावो हेलेति । यथा 'कुरङ्गीवाङ्गानि' । ७२२ । इति । अत्र ह्यन्तर्गतरतिप्रबोधमात्रमुक्तं न त्वभिलाषशृङ्गार इति मन्तव्यम्। तदेतद्राह्मणस्योपनयनमिव भविष्यत्पुरुषार्थसअपीठबन्धत्वेन योषिता. मामनन्ति । १७८) लीलादयो दश स्वाभाविकाः ॥३५॥ विशिष्टविभावलामे रतौ सविषयत्वेन स्फुटीभूतायां तदुपबृंहणकृता देहविकारा लीलाविलासविच्छित्तिबिब्बोकविभ्रमकिलिकिंश्चितमोट्टायितकुट्टमितललितविहृतनामानः । एते च प्राप्तसंभोगत्वे ऽप्राप्तसंभोगत्वे च भवन्ति । शोभादयश्च सप्त वक्ष्यमाणाः प्राप्तसंभोगतायामेव । लीलादीलँक्षयति१७९) वाग्वेषचेष्टितैः प्रियस्यानुकृतिीला ॥३६॥ 1. I. किमिव न हि, L किमिह न हि 2. I. places बिल्बोक after विभ्रम 3. I, P. कुटुं मित १५ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy