________________
१७७) अ. ७ सू. ३४ ] काव्यानुशासनम्
१७७) भावहावहेलास्त्रयोऽङ्गजा अल्पबहुभूयोविकारा
त्मकाः ॥३४॥
यद्यपि -
( 41 ) देहात्मकं भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः । भावात्समुत्थितो हावो हावाला समुत्थिता ॥
Jain Education International
2
:
[ ना. शा. अ. २४. लो. ७ (C, S. S.)
अ. २२ श्लो. ७ (N. S. ) ] इति भरतवचनात्क्रमेणैषां हेतुभावः, तथापि परम्परया तीव्रतमसत्त्वस्याङ्गस्यैव कारणत्वादङ्गजा इत्युक्ताः । एवं च परस्परसमुत्थि - तत्वेऽप्यमीषामङ्गजत्वमेव । तथा हि — कुमारीशरीरे प्रौढतम कुमार्यन्तरगतहेलावलोकने हावोद्भवो भावश्चेदुल्लासितपूर्वः । अन्यथा तु भावस्यैवोद्भवः । एवं भावेऽपि दृष्टे हावो हेला वा । यदा तु हावावस्थोद्भिन्नपूर्वा परत्र च हेला दृश्यते तदा हेलातोऽपि हेला । एवं हावाद् हावः भावाद्भाव इत्यपि वाच्यम् । एवं परकीयभावादिश्रवणात्सरसकाव्यादेरपि हेलादीनां प्रयोगो भवतीति मन्तव्यम् । एतदन्योन्यसमुत्थितत्वम् । तत्राङ्गस्याल्पो विकारोऽन्तर्गतवासनात्मतया वर्तमानं रत्याख्यं भावं भावयन् सूचयन् भावः । यथा
दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रं प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि । पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग्यथा
बाला नुतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥७२०॥
]
[ बहुविकाराःमा तारकचिबुकप्रीवादेर्धर्मः स्वचित्तवृत्तिं परत्र जुतीं ददर्ती कुमारी हावयतीति हावः । सा चाद्यापि स्वयं रतेः प्रबोध
1. I. drops बहु
2. I. करणत्वा
For Private & Personal Use Only
४२३.
१०
१५
२०
www.jainelibrary.org