________________
काव्यानुशासनम् [ १७६) अ. ७ स. १३ १७६) सत्त्वजा विंशतिः स्त्रीणामलङ्काराः ॥३३॥ संवेदनरूपात्प्रसृतं यत्ततोऽन्यदेहधर्मत्वेनैव स्थितं सत्त्वम् । यदाह
(40) 'देहात्मकं भवेत्सत्त्वम् ' [ ना. शा. अ. २४ श्लो. ७. (C.S.S.), अ. २२. श्लो. ७ (N.S.)] इति । ततो जाताः सत्त्वजाः। राजसतामसशरीरेण्वसंभवात् । चाण्डालीनामपि हि रूपलावण्यसम्पदो दृश्यन्ते न तु चेष्टालङ्काराः । तासामपि वा भवन्त उत्तमतामेव सूचयन्ति । अलङ्कारा देहमात्रनिष्ठा न तु चित्तवृत्तिरूपाः । ते यौवन उद्रिक्ता दृश्यन्ते बाल्येऽनुद्भिन्ना वा के तिरोभूताः । यद्यपि चैते पुरुषस्यापि सन्ति तथापि योषितां त एवालङ्कारा इति तद्गतत्वेनैव वर्णिताः । पुंसस्तूत्साहवृत्तान्त एव परोऽलङ्कारः । तथा च सर्वेष्वेव नायकभेदेषु धीरत्वमेव विशेषणतयोक्तम् । तदाच्छादितास्तु शङ्गारादयो धीरललित इत्यादौ ।
अलङ्काराश्च केचन क्रियात्मकाः केचिद्गुणस्वभावाः । क्रियात्मका अपि केचन प्राग्जन्माभ्यस्तरतिभावमात्रेण सत्त्वोबुद्धेन देहमाने सति भवन्ति । तेऽङ्गजा इत्युच्यन्ते । अन्ये त्वद्यतनजन्मसमुचितविभाववशस्फुटीभवद्रतिभावानुविद्धे देहे परिस्फुरन्ति ते स्वाभाविकाः, स्वस्मादतिभावाद् हृदयगोचरीभूताद्भवन्ति-इति । तथा हि कस्याश्चिन्नायिकायाः कश्चिदेव स्वभावबलाद्भवति, अन्यस्या अन्यः, कस्याश्चिद् द्वौ त्रय इत्याघतोऽपि स्वाभाविकाः । भावहावहेलास्तु सर्वा एव सर्वास्वेव सत्त्वाधिकास्तूत्तमाङ्गनासु भवन्ति । तथा शोभादयः सप्त । एवमङ्गजाः स्वाभाविकाच क्रियात्मानः । शोभादयस्तु गुणात्मानस्ते चायनजाः । यत्नाजाताः क्रियात्मकाः । इच्छातो यत्नस्ततो देहे क्रियेति पदार्थविदः । ततोऽन्येऽयत्नजाः ।
तान् क्रमेण लक्षयति--- __ 1. P. drops हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org