SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ १७४-७५) अ. ७. सू. ३१ - ३२] काव्यानुशासनम् यत्संकेतगृहं प्रियेण कथितं संप्रेष्य दूत स्वयं तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया । स्थानोपासनसुचनाय विगलत्सान्द्राञ्जनैरश्रुभिः भूमावक्षरमालिकेव लिखिता दीर्घ रुदत्या शनैः ॥७१७॥ . अभिसरत्यभिसारयति वा कामार्ता कान्तमित्यभिसारिका । यथाउरसि निहितस्तारो हारः कृता जघने घने कलकलवती काची पादौ रणन्मणिनूपुरौ । प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमपरं त्रासोद्धान्ता दिशो मुहुरीक्षसे ॥ ७१८॥ [ अ. श. श्लो. ३१ ] तथा - न च मेऽवगच्छति यथा लघुतां करुणां यथा स कुरुते च मयि । निपुणं तथैनमभिगम्य वदेरभिदूति काचिदिति संदिदिशे ॥७१९ ॥ [ शि. व. स. ९. श्लो. ५६ ] अन्वर्थ एवासां लक्षणमित्याहत्य लक्षणं न कृतम् । १७४) अन्त्यव्यवस्था परस्त्री ॥ ३१ ॥ परस्त्रियौ तु कन्योढे । संकेतात्पूर्वं विरहोत्कण्ठिते, पश्चाद्विदूषकादिना सहाभिसरन्यावभिसारिके । कुतोऽपि कारणात्सङ्केतस्थानमप्राप्ते नायके विप्रलब्धे इति व्यवस्थतैवानयोरिति । नायिकानां प्रतिनायिकामाह -- १७५) ईर्ष्या हेतुः सपत्नी प्रतिनायिका || १२ || यथा रुक्मिण्याः सत्यभामा । दूत्यश्च नायिकानां लोकसिद्धा एवेति नोक्ताः । अथ: स्त्रीणामलङ्कारानाह ४२१ 1 L. रुदत्या Jain Education International For Private & Personal Use Only १० १५ १० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy