SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [ १७३) अ. ६. सू. ३० उचिते वासके स्त्रीणामृतुकालेऽपि वा बुधैः। द्वेष्याणामथवेष्टानां कर्तव्यमुपसर्पणम् ॥ [ ] इति नयेन वासके रतिसंभोगलालसतयाङ्गरागादिना सजा प्रगुणा वासकसजा। यथा---- तल्पकल्पनविधेरनन्तरं भर्तमार्गमवलोकते मुहुः। दर्पणे क्षणमुदीक्षते वपुर्हर्षभूषणमनिन्धभूषणा ॥७१५॥ प्रियंमन्या चिरयति भरि विरहोत्कण्ठिता, यथा अन्यत्र व्रजतीति का खल्लु कथा नाप्यस्य तादृक् सुहृद् यो मां नेच्छति नागतश्च स हहा कोऽयं विधेः प्रक्रमः । इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नामोति निद्रां निशि ॥७१६॥ २० - दूतीमुखेन स्वयं वा संकेतं कृत्वा केनापि कारणेन वश्चिता विप्रलब्धा । यथावासयन्ति तत्र स्थाने रात्रिमिति वासका राज्युचिताः कामोपचाराः । फलार्थ इत्यस्य हेतोः सर्वापवादकत्वं दर्शयितु धर्मवृत्तिना राज्ञा परिपाटया दुर्भगापि सेव्येति च निरूपयितुमाह-उचिते वासके इति । आर्तवः कालो हि भूयानपि फलतः परिमितीभवति । यथोक्तम् (175) ऋतुः षोडश तत्रायाश्चतस्रो दशमात्पराः । । .. त्रयोदशी च निन्याः स्युरयुग्माः कन्यकोद्भवाः ॥ (176) षष्ठ्यष्टमी च दशमी द्वाभ्यां वर्णेश्च साधिका । युग्मा पुत्राय रात्रिः स्यात् ' [ ] इति । तत्रापि नक्षत्रविशेषपरिवर्जनम् । पुत्रश्च राज्ञां मुख्यं फलम् । यथाह-- (177) 'प्रजायै गृहमेधिनाम् ' इति ॥ [ र. वं. स. १. श्लो. ७.] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy