SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ १७३) अ. ७ स. ३० ] काव्यानुशासनम् सख्येवं यदि तेन नास्मि कलिता पान्थः कथं प्रोपितः प्राणाः संप्रति मे कलङ्कमलिनास्तिष्ठन्तु वा यान्तु वा ॥७१२॥ [ वनितान्तरव्यासङ्गादनागते प्रिये दुःखसंतप्ता खण्डिता । यथानवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि मुहुरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन् नवपरिमलगन्धः केन शक्यो वरीतुम् ॥७१३॥ [शि. व. स. ११, श्लो. ३४. ] ईर्ष्याकलहेन निष्क्रान्तभर्तृकत्वात्तत्संगमसुखेनान्तरिता कलहान्त- १० रिता । यथा निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नैति न दृश्यते प्रियमुखं नक्तं दिनं रुघते । अङ्ग शोषमुपैति पादपतितः प्रेयस्तिथोपेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥७१४॥ १५ [अ. श, श्लो. ९२] (39) परिपाटयां फलार्थे वा नवे प्रसव एव वा दुःखे चैव प्रमोदे च षडेते वासकाः स्मृताः ।। परिपाट्यामिति । परिपाटिर्यथाकल्पितानुपूर्वी । अस्या एकेन दिनेन वारः, अस्या द्वाभ्यामित्यादिः । तदपवादमाह-फलाथै इति । ऋता... विति यावत् । नव इति । नवत्वे प्रसवे वृत्ते चिरविरहखिना सुखयितुम् । दुःखे तदीयबन्ल्यापत्त्यादौ दुःखिता आश्वसनीयेति । प्रमोद इति । तदीयपुत्रोत्सवादौ । उत्सवो हि माननीय इत्युक्तम् । 1. I. °दि नास्मि तेन 2. I. °दमकं 3. I. °मुन्मूल्यते + In P. this verse is written on the margin which is broken in parts; so some letters cannot be made out. 4. A. B. drop चिर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy