SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ १७१) अ. ७. स. २८] . काव्यानुशासनम्। यनिःशङ्कमिहार्पितं वपुरहो पत्युः समालिङ्गने ......... मानिन्याः कथितोऽनुकूलविधिना तेनैव मन्युर्महान् ॥७०४॥ सैवोदासीना यथा- [... आयस्ता कलहं पुरेव कुरुते न अंसने वाससो भन्मभ्ररतिखण्ड्यमानमधरं धत्ते न केशग्रहे । अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष सम्प्रति कुतः कोपप्रकारोऽपरः ॥७०६॥ [अ. स. श्लो. १०६ ] प्रौढा ऽधीरा संतर्जनेन यथा-.. तथाऽभूदस्माकं प्रथममविभिन्ना तनुरियं ततोऽनु त्वं प्रेयानहमपि हताशा प्रियतमा । इदानीं त्वं नाथो वयमपि कलत्रं किमपरं मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥७०६॥ [अ. श. श्लो. ५३ ] सैव साधाता यथा-- __ 'कोपात्कोमलबाहुलोल - ॥ ७०७ ॥ इति ।। परस्त्रीलक्षणमाह १७१) परोढा परस्त्री कन्या च ॥२८॥ परेणोढा परस्य स्त्री परस्त्री । सा च नाङ्गिनि रसे उपकारिणीति नास्याः प्रपञ्चः कृतः । ऊढेत्युपलक्षणम् । अवरुद्धापि परस्त्रीत्युच्यते । २० परोढा यथा 'दृष्टिं हे प्रतिवेशिनि' । ७०८ । इति । कन्या तु पित्रावायत्तत्वादनुढापि परस्त्री । यथा दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यमभ्यस्यते पूर्वाकारमुरस्तथापि कुचयोः शोभां नवामीहते । नो धत्ते गुरुतां तथाप्युपचिताभोगा नितम्बस्थली ।' तन्न्याः स्वीकृतमन्मथं विजयते नेत्रैकपेयं वपुः ॥७०९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy