SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ १६७-६९) अ. ७ सू. २४-२७ ] काव्यानुशासनम् नितम्बो मन्दत्वं जनयति गुरुत्वाद् द्रुतगतेमेहत्त्वादुद्वत्तस्तनकलशभारः श्रमयति । विकासिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसभमभिसारे हि रिपवः ॥६९७॥ [ ] कौशलेन यथा उद्धतैर्निभृतमेकमनेकै छेदवन्मृगदृशामविरामैः । श्रूयते स्म मणितं कलकाश्चीनूपुरध्वनिभिरक्षतमेव ॥६९८ ॥ [शि. व. स. १० श्लो. ७६ ] १६७) धीराधीराधीराऽधीराभेदादन्त्ये त्रेधा ॥२४॥ अन्त्ये मध्याप्रौढे । त्रेधा-धीरा मध्या, धोराधीरामध्या, अधीरा १० मध्या । एवं प्रौढापि त्रेधा। १६८) षोढापि ज्येष्ठाकनिष्ठाभेदाद् द्वादशधा ॥२६॥ मध्याप्रोढयोः प्रत्येकं त्रिभेदत्वात्पड़िधापि ज्येष्ठाकनिष्ठाभेदाद्वादशधा स्वस्त्री भवति । तत्र प्रथममूढा ज्येष्ठा पश्चादूढा कनिष्ठा । अथासां क्रोधचेष्टामाह १६९) सोत्मासवक्रोक्त्या सवाष्पया वाक्पारुष्येण क्रोघिन्यो मध्या धीराद्याः ॥२७॥ - मध्या धीराद्यास्तिस्रोऽपि यथासंख्यं सोत्प्रासवक्रोक्त्यादिभिः क्रोधं कुर्वन्ति । तत्र सोत्प्रासवक्रोक्त्या मध्या धीरा, यथान खलु वयममुष्य दानयोग्याः पिबति च पाति च यासको रहस्त्वाम् । व्रज विटपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥६९९॥ [शि. व. स. ७. श्लो. ५३.] २५ ___ 1. P. L. I. उद्वतै० The reading taken in the text is that of शि. व. N. S. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy