________________
काव्यांनुशासनम् [ १६६) अं. ७. सू. २३ दोर्मूलावधिसूत्रितस्तनमुरः स्निह्यत्कटाक्षे दृशौ . किश्चित्ताण्डवपण्डिते स्मितसुधासिक्तोक्तिषु भ्रलते । चेतः कन्दलितं स्मरव्यतिकरैर्लावण्यमङ्गैधृतं तन्वङ्गयस्तरुणिम्नि सर्पति शनैरन्यैव काचिद् गतिः ॥६९३॥
कौशलेन यथा--
उदितोरुसादमतिवेपथुमत्सुदृशोऽभिभर्तृ विधुरं त्रपया । वपुरादरातिशयशंसि पुरेः प्रतिपत्तिमूढमपि बाढमभूत् ॥६९४॥
[ शि. व. स. ९. श्लो. ७७ ] वयसा मध्या यथा
तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च । दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलतामहो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥६९५॥
कौशलेन यथा--
स्वेदाम्भःकणिकाचितेऽपि वदने जातेऽपि रोमोद्गमे विस्रम्भेऽपि गुरौ पयोधरभरोत्कम्पे च वृद्धिंगते । दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रियस्तन्वङ्गया हठकेशकर्षणघनश्लेषामृते लुब्धया ॥६९६॥
[सुभा. श्लो. २०७९ ] वयसा प्रगल्भा यथाषयसा मध्येति । किञ्चिदसम्पूर्णेत्यर्थः ।
यसा प्रगलभैति । सम्पूर्णेत्यर्थः । 1. पुनः शि. व. N. S. 2. N. प्रौढा. 3. N. वयसा प्रौढेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org