SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [अ. १. सू. १० जातेनियमो यथा-समुद्रेष्वेव मकराः, ताम्रपामेव मौक्तिकानि। द्रव्यस्य यथा-मलय एव चन्दनस्थानम् , हिमवानेव भूर्जोत्पत्तिपदम् । यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृत्तोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः ॥८५॥ चक्रवाकमिथुनस्य निशि भिन्नतटाश्रयणं यथा संक्षिपता यामवतीस्तटिनीनां तनयता पयःपुरान् । रथचरणाह्वयवयसां किं नोपकृतं निदाघेन ॥ ८६ ॥ १० समुद्रेष्वेव मकरा यथा गोत्रापहारं नयतो गृहत्वं स्वनाममुद्राङ्कितमम्बुराशिम् । दायादवर्गेषु परिस्फुरत्सु दंष्ट्रावलेपो मकरस्य वन्यः ॥८॥ ताम्रपामेव मौक्तिकानि यथा कामं भवन्तु सरितो भुवि सुप्रतिष्ठाः स्वादूनि सन्तु सलिलानि च शुक्तयश्च । एतां विहाय वरवर्णिनि ताम्रपर्णी नान्यत्र संभवति मौक्तिककामधेनुः ॥ ८८ ॥ मलय एव चन्दनस्थानं यथा तापापहारचतुरो नागावासः सुरप्रियः । नान्यत्र मलयाददेश्यते चन्दनद्रुमः ॥ ८९ ॥ हिमवानेव भूोत्पत्तिपदं यथा न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः । व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ॥ ९० ॥ [कु, से, स, १ श्लो. . ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy