SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. १० ] काव्यानुशासनम् अयशः पापादौ कार्ण्यस्य, क्रोधानुरागयो रक्तत्वस्य । क्रियाया यथाचकोरेषु चन्द्रिकापानस्य, चक्रवाक मिथुनेषु निशि भिन्नतटाश्रयणस्य । हासस्य यथा 1. अट्टहासच्छलेनास्याद्यस्य फेनौघपाण्डुराः । जगत्क्षय इवापीताः क्षरन्ति क्षीरसागराः ॥ ८० ॥ [ अयशसः कायै यथा प्रसरन्ति कीर्तयस्ते तव च रिपूणामकीर्तयो युगपत् । कुवलयदलसंवलिताः प्रतिदिशमिव मालतीमालाः ॥ ८१ ॥ [ पापस्य यथा— उत्खातनिर्मलकृपाणमयूखलेखाश्यामायिता तनुरभूद्दशकन्धरस्य । सद्यः प्रकोपकृत केशववंशनाशसंकल्प संजनितपापमलीमसेव ॥ ८२ ॥ [ क्रोधस्य रक्तत्वं यथा आस्थानकुट्टिमतलप्रतिबिम्बितेन कोपप्रभाप्रसरपाटलविग्रहेण । भौमेन मूर्च्छितरसातलकुक्षिभाजा भूमिश्चचाल चलतोदरवर्तिनेव ॥ ८३ ॥ [ अनुरागस्य, यथा- Jain Education International गुणानुरागमिश्रेण यशसा तव सर्पता । दिग्वधूनां मुखे जातमकस्मादर्धकुङ्कुमम् ॥ ८४ ॥ [ चकोरेषु चन्द्रिकापानं यथा- एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुव-थापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः । 1. N. मास्याः पश्य For Private & Personal Use Only ] ] } ] ] २५. १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy